पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७३
तृतीयोऽध्यायः ।

तानुरोधेन न कथञ्चनापि तत्सम्भावनाप्यस्ति यत ज्ञानं यस्य निजं रूपं क्रियाकारकवर्जितम् । सम्भावनाप्यविद्यायास्तत्र स्यात्केन हेतुना ॥ ११२ ॥ सोऽयमेवमनुदितानस्तमितावगतिमात्रशरीर अामापि सन्नविचारितप्रसिद्धाविद्यामात्रव्यवहित एवातथैवक्ष्यते योऽतः । अनुमानादयं भावाद्यावृतोऽभावमाश्रितः । ततोऽप्यस्य निवृतिः स्याद्वाक्यादेव बुभुत्सतः॥११३॥ भाववदभावादपि निवृतिरनुमानादेव किमिति न भवतीति चेच्छण ।


वास्तव एव सद्भावः किं न स्यादित्याशङ्कय युक्तिबलान्मैवमित्याह यस्मादित्यादिना । ननु ज्ञानस्य जन्यत्वात्परिणामादिक्रियावत्त्वाच्च कथमात्मरूपत्वामित्यत आह क्रियाकारकेति ॥ ११२ ॥ ननु भवत्वेवमविद्यासद्भावः प्रसिद्धिबलादात्मनि तथापि कथं तन्निवृत्तिरित्याकाङ्कायां पूर्वोक्तान्वयव्यतिरेकलक्षणानुमानोपकृताद्वाक्यादिति श्लोकतात्पर्यकथनपूर्वकमवतारयति सोऽयमित्यादिना । पूर्वमात्मत्वेन गृहीताद्देहेन्द्रियात्मकाद्भावादन्वयव्यतिरेकलक्षणानुमानाच्यावृत्तोदेहादिरात्मा न भवतीति विविक्तत्वेनाधिगतोऽयमात्माभावरूपदेहा दिभ्यो व्यावृत्तत्वेनाधिगतत्वादेवाभावमाश्रितोऽभावरूपतामिवापन्नो भवतीति शेषः । स्वरूपनिर्धारणाभावादतः सत्त्वेन प्रतिपन्नदेहादिभ्यो व्यावृत्तस्य कोऽस्मीति बुभुत्सोरस्य वाक्याब्रह्मात्मत्वप्रतिपत्तौ सत्यां स्वरूपनिर्धारणादभावाद्यावृत्तिः स्यात्ततोऽन्वयव्यतिरेकसहकृताद्वाक्यादविद्यानिवृत्तेरित्यर्थः ॥ १३ ॥ ननु देहाद्यावृत्तिर्यथानुमानात्सिद्धयति तद्वदभावो नात्मादृश्यत्वा-