पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६९
तृतीयोऽध्यायः ।

यदि शब्दोऽभिधानाभिधेयावसम्बन्धाङ्गीकारेण नामनि वर्तते कथं शब्दादहंब्रह्मास्मीति सम्यग्बोधोत्पतिः । उच्यत । असत्ये वार्मनि स्थिावा निरुपायमुपेयते । आत्मावकारणाद्विो गुणवृत्त्या विबोधिताः ॥१०४॥ कथं पुनरभिधानमभिधेयेनानभिसम्बद्धं सदनभिधेये ऽर्थे प्रमां जनयतीति । शृणु ययानभिसम्बङ्गमप्यनभिधेयेऽर्थेऽविद्यानिराकरणमुखेन बोधयतीत्याह । शयानाः प्रायशो लोके बोध्यमानाः स्वनामभिः । सहसैव प्रबुध्यन्ते यथैवं प्रत्यगात्मनि ॥ १०५ ॥


पुरुष इत्यादिः । कचिदूढिर्यथाकाशो द्युरभ्र इत्यादिः । एतेषां शब्दप्रवृत्तिनिमित्तानामन्यतमस्याप्यात्मन्यसङ्गत्वाद्गुणत्वादविक्रियत्वाद्सामान्यत्वात्प्रमाणान्तरायोग्यत्वेनागृहीतसम्बन्धत्वाञ्चाभावान्नाभिधेय आत्मेत्यर्थः ॥ १०३ ॥ आत्मनः परमार्थतः पदेन वाच्यवाचकलक्षणसम्बन्धाभावे पदविषयत्वाभावाद्वाक्यात्सम्यग्बोधोत्पत्तिर्न स्यादित्याशङ्कय परिहरति यदीत्यादिना । असत्य आरोपितरूपे वत्र्मन्युपाये शबलात्मनि स्थित्वावस्थाय निरुपायं सत्ताप्रतीतौ साक्षादुपायरहितमात्मतत्त्वमुपेयते प्राप्यते यथा शाखाग्रे चन्द्रो यथा रेखाभिः सत्या वर्णा इत्यर्थः । तथापि प्रमाणान्तरसिद्धस्य लोके लक्ष्यत्वदर्शनात्तस्य प्रमाणान्तरासिद्धस्य लक्षणयाप्यवगतिनपपद्यत इत्याशङ्कयात्मत्वादेव हेतोः स्वप्रकाशतया सिद्धत्वालुक्षणावृत्त्या तद्वगतिरुपपद्यत इत्याह आत्मत्वकारणादिति ॥ १०४ ॥ उपायमात्रस्योपेयेन सत्यसम्बन्धरहितस्य बोधकत्वेऽप्यभिधानस्यागृहीतसम्बन्धस्य बोधकत्वं कापि न दृश्यत इति विशेषमाशङ्कय सम्बन्धग्रहणमन्तरेणापि यथोच्यते तथा श्रटांणेवत्याह बोधकत्वं कथं पुनरित्यादिना । यथा निद्रितः पुमानुत्तिष्ठ देवदत्तेत्यामन्त्रणशब्देनागृह्यमाणा-