वृतिभिर्युष्मदर्याभिर्लक्ष्यते चेदृशिः परः ।
अनात्मत्वं भवेत्तस्य वितथं च वचः श्रुतेः ॥ १०१ ॥
अनेन गुणलेशेन ह्यत्यहङ्कर्तृकर्म या ।
लक्ष्यतेऽसावहंवृत्त्या नाञ्जसात्राभिधीयते ॥ १०२ ॥
नाञ्जसात्राभिधीयत इति को हेतुरिति चेत् ।
षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः ।
नामन्यन्यतमोऽमीषां तेनामा नाभिधीयते ॥१०३॥
ग्भूतेव भवति । यद्वा । स्वस्मादन्यतोऽन्यस्मात्प्रतीचि प्रत्यगात्मनीव सवर्वान्तरत्वं भातीति यस्मात्तस्मादात्मना चाविनाभावमित्यादिपूर्वोक्तहेतुभ्यश्च तच्छब्दैरेवात्मा लक्ष्यत इत्यर्थः ॥ १०० ॥ विपक्षे दोषमाह वृत्तिभिरिति । घटादिवृत्तिभिस्तदभिधानैश्वात्मनो लक्ष्यत्वे घटादिवदनात्मत्वयैव प्रतीतिप्रसङ्गाब्रह्मात्मत्वेन प्रतीतिर्न स्यात्तथा वाहं ब्रह्मास्मितत्त्वमस्यादिवाक्यानामेकत्वप्रतिपादकानां वैयथ्र्यमपुरुषार्थपर्यवसायित्वं च स्यादित्यर्थः ॥ १०१ ॥ उक्तार्थनिगमनपरं श्लोकमाकाङ्कितपदं पूरयन्नवतारयति यथोक्तनेति । अहङ्कर्तारं प्रमातारं तत्कर्म चव देहघटादिकमतीत्य या वर्तते कूटस्थचिन्निभा याहंवृत्तिस्तया । यद्धा । अतिशयेनाहंकतैव कर्मविषयी यस्यास्तयासौ प्रत्यगात्मा लक्ष्यते । अत्रात्मन्यंञ्जसा साक्षादभिधावाच्यत्वं यतो न सम्भवति तत इत्यर्थः । गुणलेशेनेति हेतौ तृतीया ॥१०२॥ ननु हेत्वभिधानमन्तरेणात्मनि नाभिधायकः शब्द इति न शक्यते वतुमित्याशङ्कय शब्दप्रवृत्तिनिमित्तानां सम्बन्धादीनामात्मन्यसम्भवो हेतुरिति श्लोकेन परिहरति नाञ्जसात्राभिधीयत इत्यादिना । षष्ठीति । यद्धाच्यः सम्बन्ध इत्यर्थः । कचित्षष्ठयर्थः सम्बन्धः शब्दप्रवृत्तिनिमित्तं यथा राजपुरुष इत्यादिः । कचिद्रुणयोगो यथा शुङ्कः पट इत्यादिः । कचित्क्रियायोगो यथा पाचक इत्यादिः । कचिजातियोगो यथा गौरश्चः