कस्मात्पुनर्हतोह्यहमित्येतदपि गुणलेशेन वर्तते न पुनः साक्षादेवेति । विधूतसर्वकल्पनाकारणस्वाभाव्यादात्म । अत अाह । व्योनि धूमनुषाराभ्रमलिनानीव दुर्धियः । कल्पयेयुस्तथा मूढाः संसारं प्रत्यगात्मनि ॥ ९९ ॥ ननु सर्वकल्पनानामप्यामन्यायनासम्भवे समानेऽहंवृतैौ कः पक्षपाते हेतुर्येन वृत्त्यन्तराणि विधूयाहंवृत्यैवात्मोपलक्ष्यत इति । उच्यते । विनिभेयमहंवृतिः प्रतीचीवात्मनोऽन्यतः । पूर्वोतेभ्यश्च हेतुभ्यस्तस्मादात्मानयोच्यते ॥ १०० ॥
निरुपाधिकस्य वाच्यत्वानुपपत्तेस्त्वमहमृदिशब्दवाच्यप्रमातृसाक्षितया तत्सम्बन्धस्य भावादभीष्टसर्वप्रत्यक्त्वप्रतिपत्तिप्रयोजनभावात्त्वमहमादिशब्दवाच्यान्तःकरणोपाधावेव स्फुटतरव्यवहारयोग्यत्वात्तद्वाचकशब्दैरात्मा लक्ष्यत इत्यर्थः । त्वंप्रमाताथ यस्य शब्दस्य स त्वमर्थस्त्वंशब्द इति यावत् ॥ ९८ ॥ ननु त्वमहमादिपदानां प्रत्यङात्रवाचित्वात्साक्षादेवात्माभिधीयतां किं तत्र लक्षणाकल्पनयेति शङ्कते कस्मात्पुनर्हतोरिति । तत्र वाच्यवाचककल्पनानां कारणभूतगुणक्रियादीनां घस्तुतोऽभावादिति श्लोकमवतारयन्परिहरति विधूतेति । संसारशब्दप्रवृत्तिनिमित्तभूतं षष्ठयादिकमित्यर्थः ॥ ९९ ॥ नन्वहङ्कारस्येव देहम्रटादेरप्यात्मन्यधिष्टाने कल्पितत्वाविशेषात्तद्धाचकैरपि शब्दैरात्मा कस्मान्न लक्ष्यत इत्याशङ्कय श्लोकेनोत्तरमाह नन्वित्यादिना । अहंवृत्तिहर्यात्मविवर्ततया तप्तायःपिण्डवचिन्मयी भवति । आत्मनो यदन्यत्तस्माचिद्धयतिरिक्तपदार्थभ्यः प्रतीचीव प्रत्यग्भूतेव भवति । यद्धा । आत्मनः प्रत्यगात्मनः समनन्तरमन्यत्तो देहादिभ्यः प्रल्य-