पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१६८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१६६ नैष्कम्येसिद्धिश्चन्द्रिकासहिता तस्यार्थस्य सुखप्रतिपत्त्यर्थमुदाहरणम् । अग्मिः सम्यगधीतेऽसौ जहासोचैश्य मञ्चकः । यथा तद्वदहंवृत्त्या लक्ष्यतेऽनर्हयापि सः ॥ ९७ ॥ कस्मात्पुनः कारणात्साक्षादेवात्मा नाभिधीयते किमन या कल्पनयेति तत्राह । त्वमित्येतद्विहायान्यन्न वामर्मात्मावबोधने । समस्तीह त्वमर्थोऽपि गुणलेशेन वर्तते ॥ ९ ॥ अहं दुःखीत्यात्मनो दुःखित्वप्रत्यक्षतां गौणीं बूयादन्तःकरणगतदुःखित्व प्रत्यक्षतावदुणयोगात्प्रत्यगात्मनि वर्त्तत इति ब्रूयात् । स्वयंप्रकाशचैत न्यस्वभावस्यात्मनो दुःखित्वादिपरिणामित्वासम्भवेन तस्मिन्दुःखीति प्रत्यक्षस्य मुख्यार्थतायोगात्ततश्चैतन्यस्वभावस्यात्मनो ब्रह्मत्वबोधकेन त त्वमस्यादिवाक्येन सह दुःखित्वप्रत्यक्षस्य न विरोध इत्यर्थः ॥ ९६ ॥ अहं दुःखीतिप्रत्ययेन गुणवृत्यात्मोच्यत इत्येतदृष्टान्तेन प्रतिपाद्यती त्याह तस्यार्थस्येति । अश्यादिशब्देनाध्येतृचेतनाभिधानानर्हण माण वको लक्ष्यते यथा तद्वत्स्वयंप्रकाशाचैतन्याभिधानानर्हयाहंवृत्यात्मा ल क्ष्यत इत्यर्थः ॥ ९७ ननु मुख्यया वृत्त्यात्मनोऽभिधायकं पद्मस्ति न वा । नास्ति चेन्न लक्ष्यत्वं स्वशब्दवाच्यस्यैव लोकेऽन्यपदलक्ष्यत्वदर्शनात् । अस्ति चेत्ते नैवाभिधीयतां किमनया लक्षणाकल्पनयेति शङ्कते कस्मात्पुनरिति । त दुत्तरत्वेन श्लोकमवतारयति तत्राहेति । त्वमहमित्येतत्पदं विहायात्मा वबोधने पदान्तरं न सम्भवति । तच्च त्वमहमादिपदं गुणलक्षणयोरन्य तरवृत्यैवात्मनि वर्त्तते न तु मुख्यया वृत्त्यात्माभिधायकं पदान्तर मस्ति । तथापि नालक्ष्यत्वप्रसङ्गो वाच्यत्वस्य क्ष्यत्वाप्रयोजकत्वान्मु ख्यार्थसम्बन्धो विवक्षितार्थप्रतिपत्त्युपयोगित्वालुक्ष्यत्वे प्रयोजको न तु वाच्यत्वमुक्तप्रयोजकसद्भावे वाच्यत्वाभावापराधेन लक्ष्यत्वाभावाद् र्शनादात्मनश्च. “यतो वाचो निवर्तन्त” इत्यादिश्रुतेर्जात्याद्यभावाञ्च