अभ्यासोपचिता कृत्स्त्रं भावना चेन्निवर्तयेत् । नैकान्तिकी निवृतिः स्याज्ञावनाजं हि तत्फलम्॥९१॥ अपि चाह । दुःख्यस्मीत्यपि चेङ्कस्ता कल्पकोट्युपचूंहिता । स्वल्पीयोऽभ्यासजा स्यास्वी भावनेयत्र का प्रमा ९२
ननु शास्त्रात्स्यास्त्रुत्वं भविष्यति । नैवम् । यथावस्थित-
म्भावनाविपरीतभावनालक्षणप्रतिबन्धनिरासेनेवोपयोगान्निादिध्यासनस्य चैकाग्रयजनकत्वेन चित्तविक्षेपलक्षणप्रतिबन्धनिरासकत्वात्समाहितमनसश्च प्रमाणसामग्रीतः स्वत एव प्रमोत्पत्तेः प्रत्यक्षादेश्धाभ्यासापे• क्षया प्रमितिजनकत्वाद्दर्शनान्न साक्षात्प्रसंख्यानस्य प्रमोत्पादकत्वमित्यर्थः ।॥ ९० ॥ नन्वभ्यासजनिताया भावनायाः समस्तसांसारिकदुःखनिवर्तनेन ब्रह्मरूपताप्राप्तिहेतुत्वं “स यथाक्रतुरस्मिंलोके पुरुषो भवति तथेतः प्रेत्य भवती'ति श्रूयत इति शङ्कते अभ्यासोपचितेति । सत्यं श्रूयते सा तु प्राप्तिरात्यन्तिकी न भवति भावनाजन्यत्वेनानित्यत्वादिति परिहरति नेकान्तिकीति ॥ ९१ ॥ किमु वक्तव्यमिति न्यायान्तरं दर्शयति अपि चाहेति । अनादिकालप्रवृत्ताप्यहं सुखी दुःखात भावना ध्वस्ता चेदल्पकालाभ्यासजनिता ब्रह्मभावना निवर्त्तत इति किमु वक्तव्यं तथात्वेऽपि स्थास्लुत्वे भावादित्यर्थः ॥ ९२ ॥ ननु का प्रमेति कथमभिधीयते सगुणोपासनाफलत्वेन “न च पुनराचर्त्तत' इत्यनावृत्तेः श्रूयमाणत्वादिति शङ्कते ननु शास्त्रादिति । तबाििप शास्त्रस्य पदार्थशक्तयाधानकारित्वायोगान्न च “न च पुनरावर्तत' इत्यादेरपि शास्त्रस्य नित्यत्वबोधकत्वमेवेति वाच्यम् । तथा च सति “नास्त्यकृतः कृतेने'त्यादिश्रुतिसहकृतस्य भावनाजन्यत्वेनानित्यत्वानुमानस्य बलवत्तरत्वादनावृत्तिश्रुतेश्च झानद्वारापेक्ष्यापि सम्भवान्न