पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

वस्तुयाथात्म्यावबोधमात्रकारित्वाच्छास्त्रस्य । नहि पदार्थशतयाधानकृच्छास्त्रम् । प्रसिद्धं च लोके । भावनाजं फलं यत्स्याद्यञ्च स्यात्कर्मणः फलम् । न तत्स्यान्विति मन्तव्यं द्रविडेष्विव सङ्गतम् ॥९३॥ यद्यपि प्रत्यक्षादिप्रमाणेोपातमात्मनो दुःखिावं तथापि तत्त्वमस्यादिवाक्योत्यप्रत्यय एव बलीयानिति निश्चयों ऽव्यभिचारिप्रामाण्यवाक्योपातत्वात्प्रमेयस्य च स्वत एव निर्दू:खिावसिद्धेः । प्रत्यक्षादेस्तु सव्यभिचारिवासम्भावनायाश्र परुषपरिकल्पनामात्रावष्टम्भावावेति ।


च पुनरावर्तत इत्यस्य न नित्यत्वबोधकत्वमिति परिहरति नैवमिति । किंच भावनाजन्यपफलस्यानित्यत्वं प्रसिद्धं तस्मादपि शास्त्रान्न नित्यत्वं प्रतिपत्तुं शक्यत इत्यत्र श्लोकमवतारयति प्रसिद्धं चेति ॥ ९३ ॥ पूर्व प्रमाणानां परस्परविरोधाभावाहुःखित्वस्य प्रमाणान्तरायोग्यत्वात्तत्वमस्यादिवाक्यस्य मानान्तराविरुद्धार्थतया प्रसंख्यानपरत्वं निराकृतमिदानीं दुःखित्वस्य प्रत्यक्षादिसिद्धतामभ्युपगम्यापि तत्त्वमस्याद्यागमजन्यज्ञानमेव मानान्तरसिद्धार्थबाधकं स्यादित्याह यद्यपीति । कुतस्तस्यैव बाधकत्वमपीत्यत आह अव्यभिचारीति । अपौरुषेयत्वेनासम्भाविताशेषपुरुषदोषवाक्यजन्यत्वादित्यर्थः । इतश्चागमजन्यशानस्य बाधकत्वमित्याह प्रमेयस्य चेति । आत्मनः सुषुप्त्यादौ स्वयंप्रकाशमानतया निर्दू:खित्वस्य सिद्धत्वादुःखित्वग्राहिप्रत्यक्षस्य बाध्यत्वमित्यर्थः । इतश्च तयैव बाध्यत्वमित्याह प्रत्यक्षादेस्त्विति । प्रत्यक्षादेः सम्भावितदोषत्वादुःखित्वग्राहिप्रत्यक्षस्य बाध्यत्वमित्यर्थः । यद्धा । सुषुप्यादावात्मनि प्रकाशमानेऽपि दुःखित्वग्राहिप्रत्यक्षादेव्यभिचारित्वाद्वाध्यत्वमित्यर्थः । इतश्च दुःखित्वप्रतिपत्तिबध्येत्याह सम्भावनायाश्धेति । आत्मनो दुःखित्वस्य सम्भावनामात्रसिद्धत्वादपि तङ्गाहिप्रत्यक्षादेर्वाध्यत्व-