निराकुर्यात्प्रसंख्यानं दुःखिावं चेत्स्वनुष्ठितम् । प्रत्यक्षादिविरुञ्चावात्कथमुत्पादयेत्प्रमाम् ॥ ९ ॥ ननु प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वयव्यतिरेकयुक्तिविषयबुद्धयाग्रेडनमभिधीयते तच्चानुष्ठीयमानं प्रमितिवर्धनया परिपूर्णा प्रमितेिं जनयति न पनरकाग्रयवर्धनयेति । यथाशेषाशचिनीडे स्त्रीकणपे कामिनीति निर्वस्तुकः पुरुषायासमात्रजनितः प्रत्यय इति । तन्न । यतः । अभ्यासोपचयाडुद्धेयेत्स्यादेकाग्यमेव तत् । नाह प्रमाणान्यभ्यासात्कुवन्त्ययावबाधनम् ॥ ९० ॥
कमपि िनवर्त्तते तद्वहुःखादिकमपि िनवर्त्ततामिति शङ्कित्वायुष्णत्वस्य धर्मिनिवृत्तिव्यतिरेकेण निवृत्त्यदर्शनादिहापि दुःखित्वादेर्धर्मिनिवृत्तिव्यतिरेकेण निवृत्यसम्भवातेनैव सह निवृत्तिर्वाच्या तथा च सति शून्यवादप्रसङ्ग इति परिहरति अझ्युष्णवदिति ॥ ८ ॥ नन्वनिराकृत्यैवात्मनः स्वरूपं दुःखित्वादिविपरीतप्रमामुत्पाद्य प्रसंख्यानमेव दुःखित्वादिकं निराकरिष्यतीति शङ्कते अथ मतमिति । प्रसंख्यानस्य चित्तैकाग्यरूपस्याप्रमाणत्वात्प्रमाणत्वेऽपि प्रत्यक्षादिविरोधान्मैवमिति परिहरति प्रत्यक्षादीति ॥ ८९ ॥ ननु प्रसख्यानस्य प्रमोत्पादकत्वमनुपपन्नमिति कथमुच्यततं तस्य तत्वमस्यादिवाक्यार्थज्ञानतदुपकरणयुक्तयभ्यासरूपत्वेन प्रमितिवर्धकत्वोपपत्तेः श्रुतौ च “निदिध्यासितव्य' इत्यात्मदर्शनहेतुत्वेन तस्याङ्गीकारालोके च भावनाप्रचयस्यावस्तुन्यपि प्रत्ययदाढ्र्यहेतुत्वदर्शनादिति शङ्कते ननु प्रसंख्यानमिति । तदुत्तरत्वेन श्लोकमवतारयति तन्न यत इति । प्रमाणाभ्यासोपचयस्य च पदार्थनिश्चयद्वारेण वाक्यार्थविषयास-