पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१६३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तृतीयोऽध्यायः । १६१ न च सुखदुःखादिसम्बन्धोऽवगत्यात्मनः प्रत्यक्षादिम माणैगृह्यते येन विरोधः प्रत्यक्षादिप्रमाणैरुद्धाठ्यते । क यम् । शृणु । दुःखितावगतौ चेत्स्यान्न प्रमीयेत सात्मवत् । कर्मण्येव प्रमा न्याया न तु कर्तर्यपि कचित् ॥ ७॥ अभ्यपगमेऽपि च प्रसंख्यानशतेनापि नैव त्वं सम्भा वितदोषान्मुच्यसे । अत आह । प्रमाणबड़मलत्वाद्द:खित्वं केन वार्यते । अयुष्णवनिवृतिश्चेन्नैरात्म्यं ह्येति सौगतम् ॥ ४ ॥ पूर्वमात्मनो दुःखित्वादेः प्रमाणान्तरग्राह्यत्वमङ्गीकृत्य न तद्विरोधा तत्त्वमस्यादिवाक्यस्य प्रामाण्यभङ्गप्रसक्तिरित्युक्तम् । इदानीं प्रमाणा न्तरग्राह्यत्वमेव नास्तीत्याह न च सुखेति । प्रतिज्ञातार्थहेतुत्वेन श्लोक मवतारयति कथं शृण्विति । सुखदुःखादिधर्माणामात्मसमवेतत्वे तेषा मात्मवत्प्रमागोचरत्वं न स्यात् । धर्मित्वेनात्मनः प्रमागोचरत्वमन्तरेण तद्धर्माणां प्रमागोचरत्वायोगादात्मा च न प्रमागोचरः प्रमायाः कर्मकः गोचरत्वात्कर्मकर्तृविरोधप्रसङ्गाञ्चेत्यर्थः ॥ ८७ ॥ पूर्व प्रमाणानां भिन्नविषयत्वात्तदुःखित्वादेः प्रमाणगम्यत्वासम्भवाच प्रमाणान्तरविरोधाभावात्प्रसंख्यानविधिपरत्वं वाक्यस्य नास्तीत्युक्तम् । इदानीं दुःखित्वादेः प्रमाणगम्यत्वं तद्विरोधाद्वाक्यस्य प्रसंख्यानपरत्वं चाभ्युपगम्यापि दुःखित्वादिलक्षणात्संसारादनिर्मोक्षप्रसक्तिरित्याह अ भ्युपगमेऽपि चेति । अात्मनः संसारित्वस्य प्रमाणावगतत्वेन पारमा थिकत्वान्न केनापि तस्य निवृत्तिः सम्भवति यथाझेरुष्णता न केनापि वार्यते तद्वदित्यर्थः । विपक्षे दोषमाह निवृत्तिश्चेत्रैरात्म्यमिति । दुःखि त्वादिपरिणामस्य परिणामिनिवृत्तिव्यतिरेकणालयन्तनिवृत्त्ययोगात्परि णामिनिवृत्तौ शून्यवादप्रसङ्ग इत्यर्थः । अथवा । यथाझेरुष्णत्वं प्रामाणि