पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

प्रत्यक्षं चेन शाब्दं स्याच्छाब्दं चेदक्षज कथमम् । प्रत्यक्षाभासः प्रत्यक्षे ह्यागमाभास अागमे ॥ ७ ५ ॥ न च प्रतिज्ञाहेतुदृष्टान्तन्याय इह सम्भवति शब्दादीनां स्वमहिम्ना प्रमाणानि कुर्वन्त्यर्थावबोधनम् । इतरेतरसाचिव्ये प्रामाण्यं नेष्यते स्वतः ॥ ६ ॥


माण्य बाध्यस्याभासत्वाद्वाधकस्यव प्रमाणत्वादत्यतदाह प्रमाणाना सतामिति । प्रत्यक्ष चेदिति । यत्प्रत्यक्षसिद्धं न तच्छाब्देन बाध्यते. बोध्यते वा तेन न तच्छाब्दं शब्दप्रमाणकम् । यञ्च शाब्दं शब्दप्रमाणकं तदपि न प्रत्यक्षेण बाध्यते बोध्यते वा तेन न प्रमाणानां विरोधः । ययोः पुनर्बध्यबाधकभावस्तयोरन्यतरस्यैव प्रमाणत्वमितरस्याभासत्वाद्यथेयं शुक्तिरिति प्रत्यक्षेऽभ्युपगते सतीदं रजतमिति प्रत्यक्षज्ञानं प्रत्यक्षाभासस्तथैकस्मिन्नागमेऽभ्युपगते तेनापहृतविषयोऽपर आगमाभास एवमागमप्रत्यक्षयोः प्रत्यक्षानुमानयोश्च बाध्यबाधकप्रसिद्धिर्नेतरथेत्यर्थः ॥८५ ॥ ननु तत्त्वमस्यादिवाक्यमप्रमाणं प्रत्यक्षादिविरुद्धार्थत्वादादित्यो यूपो यजमानः प्रस्तर इत्यादिवाक्यवदित्यनुमीयत इत्यत आह न च प्रतिशेति । आदित्यो यूप इत्यादाववादित्यादिपदार्थस्य पशुबन्धनाद्ययोग्यस्य यूपे पशु बभ्रातीति शेषिवाक्यविरोधादप्रामाण्यं न तु प्रमाणान्तरविरोधात् । प्रमाणानां स्वत:प्रामाण्यात्प्रभाणान्तरसंवादानपेक्षत्वात्स्वार्थावबोधमात्रेणैव प्रामाण्योपपत्तेरन्यथानवस्थाप्रसङ्गात्रेचेत्यर्थः । अथवा । प्रतिज्ञाहेतुदृष्टान्तानां यथान्योन्यापेक्षयैवार्थावबोधकत्वं तथा प्रत्यक्षानुमानादीनामपीत्याशङ्कयाह न च प्रतिज्ञेति । प्रतिज्ञादीनां प्रमाणावयवत्वादन्योन्यापेक्षया बोधकत्वेऽपि प्रत्यक्षादीनां स्वत एव प्रमाणत्वान्नेतरेतः रापेक्षा । इतरेतरापेक्षया प्रामाण्ये सति स्वतः प्रामाण्यभङ्गप्रसङ्गादेकप्रमाणत्वप्रसङ्गाचेत्यर्थः ॥ ८६ ॥