पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

माणान्तरैर्विरोधगन्धोऽपि सम्भाव्यते । यदा पुनः सर्वप्रकारेणापि यतमाना नैवेमं वाक्याथै सम्भावमः प्रत्यक्षादिप्रमाणान्तरविरोधत एव तस्मिन्नपि पक्ष उच्यते । प्रत्यक्षादिविरुद्धं चेद्वाक्यमर्थं वदेवचित् । स्यातु तदृष्टिविध्यर्थ योषाग्निवदसंशयम् ॥१॥ यदा तु तत्त्वमस्यादिवाक्यं सर्वप्रकारेणापि विचार्यमाणं न कियां कटाक्षणापि वीक्षते तदा प्रसंख्यानादिव्यापारो दुःसम्भाव्य इति । तदुच्यते । वस्वेकनिष्ठं वाक्यं चेन्न तस्य स्यात्रियार्थता । वस्तुनो ह्येकरूपावाद्विकल्पस्याप्यसम्भवः ॥ ४२ ॥ भिन्नविषयत्वाच्च न प्रमाणान्तरविरोधः । कथम् । उच्यते।


स्थति यदा पुनरिति । तन्निराकरणत्वेन श्लोकमवतारयति तस्मिन्नपि पक्ष इति । एवं सति वाक्यस्य वस्तुनिष्टत्वमपहाय दृष्टिविध्यर्थमङ्गीकृतं स्यादित्यर्थः॥ ८१॥ अस्तु तर्हि तत्त्वमस्यादिवाक्यस्यापि प्रमाणान्तरविरुद्धत्वात्प्रसंख्यानद्वारेण वस्तुनिष्ठत्वमिति तत्राह यदा त्विति । उपक्रमोपसंहारादिभिर्विचार्यमाणं तत्त्वमस्यादिमहावाक्यं न क्रियापरं दृश्यते तस्मादुपासनाविधिपरत्वं न स्यादित्यर्थः । उक्तेऽर्थे श्लोकमवतारयति तदुच्यत इति । वाक्यस्य केवलवस्तुनिष्टत्वाद्वस्तुनश्च कूटस्थत्वेन क्रियासाध्यत्वायोगात्कूटस्थत्वादेव नित्यसिद्धं वोपासनादिक्रियासाध्यं वा तदिति विकल्पस्याप्यसम्भवात्तत्त्वमस्यादिवाक्यं न प्रसंख्यानविधिपरमित्यर्थः॥ ८२॥ प्रमाणान्तरविरोधमभ्युपगम्यैतदुक्तं स एव नास्तीत्याह भिन्नविषय-