पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५९
तृतीयोऽध्यायः ।

अपूर्वाधिगमं कुर्वन्प्रमाणं स्यान्न चेन्न तत् । न विरोधस्ततो युक्तो विभिन्नार्थावबोधिनोः ॥३॥ य एवमपि भिन्नविषयाणां विरोध वक्ति सोऽत्रापि विराध बूयात् । नायं शब्दः क्तो यस्माद्रपं पश्यामि चक्षुषा । इति यद्वत्तयेवायं विरोधोऽक्षजवाक्ययोः ॥ ४४ ॥ प्रमाणानां सतां न विरोधः श्रोत्रादीनामिव भिन्नविषयत्वात् । ययोश्चाभिन्नविषयावं तयोराखुनकुलयोरिव प्रतिनियत एव बाध्यबाधकभावः स्यात् । अतस्तत्वाचेति ।


तत्कथमित्यपेक्षायां श्लोकमवतारयति उच्यत इति । अपूवर्वाधिगमं कुर्वत्प्रमाणान्तरानधिगतमर्थमेव गमयत्प्रमाणं भवति । न चेदनधिगतमर्थमवगमयेदधिगतमेवावगमयेदनुवादश्रुत्यादिवत्प्रमाणमेव

न भवति । तस्माद्विभिन्नार्थविषयत्वमेव प्रमाणानामङ्गीकार्य ततश्ध तत्वमस्यादिवाक्यप्रत्यक्षादिकयोः प्रमाणतयान्योन्यवात्तनभिज्ञयोर्न विरोध इत्यर्थः ॥ ८३ ॥ भिन्नविषययोर्वाक्यप्रत्यक्षयोः परस्परवात्तनभिज्ञतया विरोधो नास्तीत्युक्तमर्थ दृष्टान्तेन स्पष्टयितुमाह य एवमपीति । यथा रूपग्राहकशब्दग्राहकयोश्चक्षुःश्रोत्रयोर्न कोऽपि विरोधः सम्भवत्येवं प्रत्यक्षागमयोरपीत्यर्थः ॥ ८४ ॥ ननु सैवेयं ज्वालेति प्रत्यक्षं प्रभाविततिलिङ्गानुमानाद्वाध्यते तथा पदार्थत्वेनाग्रेरनुष्णत्वानुमानमुष्णत्वग्राहिप्रत्यक्षेण बाध्यते तथा नहिंस्यात्सर्वभूतानीत्यागमोऽग्रीषोमीयं पशुमालभेतेत्यागमान्तरेण बाध्यते तत्कथं प्रमाणानां विरोधाभाव इत्याशङ्कय ययोज्ञानयोरेकपदार्थोपाधौ विभिन्नस्वभावत्वालम्बनत्वं तयोबध्यबाधकभावेऽपि न द्वयोः प्रा-