गामना पृथ्यगर्थः सन्तविद्योत्थं सद्वितीयावं निहन्तीति । उच्यते । विरोधात् । तदुच्यते । संसारिताद्वितीयेन पारोक्ष्यं चात्मना सह । प्रासङ्गिन्कं विरुद्धत्वातत्वम्भ्यां बाधनं तयोः ॥ ७९ ॥ तत्त्वमर्थयोस्तु बाधकत्वेऽन्यदपि कारणमुच्यते स्वमर्यमपरित्यज्य बाधकौ स्तां विरुद्वयोः ॥ ८० ॥ एवं तावद्यथोपकान्तेन प्रक्रियावत्मना न प्रत्यक्षादिप्र-
निवृत्तिः स्यादिति समाधत्त उच्यत इति । अर्थमुपपाद्य श्लोकमवतारयति तदुच्यत इति । संसारित्वमद्वितीयेन सह विरुध्यते पारोक्ष्यं चापरोक्षेणात्मना सह विरुध्यते । एवं तयोः प्रतिपाद्यमानेनाद्वितीयेन प्रत्यक्त्वेन च विरोधादेकत्वपराभ्यां तत्त्वम्भ्यां तयोबाँधनं प्रासङ्गिकं नान्तरीयकं स्यादित्यर्थः । प्रासङ्गिकविरुद्धत्वादिति पाठे प्रासङ्गिके च ते अद्वितीयप्रत्यक्त्वाभ्यां विरुद्धे चेति प्रासङ्गिकाविरुद्धे तद्भावस्तत्वं । प्रासङ्गिकत्वादारोपितत्वाद्विरुद्धत्वाच्च तयोबधनं क्रियत इत्यर्थः ॥ ७९ . ॥ ननु विरुद्धत्वाचेत्संसारित्वपारोक्ष्ययोस्तत्वमथाभ्यां बाधनं तर्हि विरुद्धत्वाविशेषात्तत्वमर्थयोरेव बाध्यत्वामितरयोर्वाश्रधकत्वं किं न स्यादित्याशङ्कय तयोबाधकत्वे कारणमुत्तरश्लोकेनोच्यत इत्याह तत्त्वमर्थयोरिति । तत्त्वमर्थयोरन्योन्यविशेषणविशेष्यभावस्याज्ञातत्वे सति पुरुपार्थत्वेन श्रुतितात्पर्यविपयत्वादितरयोस्तु तद्विपरीतार्थत्वात्तत्वमर्थावेव स्वमर्थमन्योन्यविशेषणविशेष्यभावलक्षणमपरित्यज्य तद्विरोधिनोः पारोक्ष्यदुःखित्वयोर्वाधकाविति युक्तमित्यर्थः ॥ ८० ॥ एवं तत्त्वम्पदयोर्लक्षणावृत्या बोधकत्वे प्रत्यक्षादिविरोधो नास्तीति वृत्तं दर्शयति एवं तावदिति । इदानीं प्रत्यक्षादिविरोधमसन्तमभ्युपवाक्यस्य ये मन्यन्ते तन्मतनिराकरणायोपन्य-