पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५६
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

तीयाचं दुःखिावं निरन्वयमपनुदतीति । उच्यते । न चैतयोर्निवर्तकनिवार्यभावं वयं बूमः । कथं तर्हि चमर्थे प्रत्यात्मनि प्रागनवबडातिीयता सानेनावबोध्यते । अतोऽनवबोधनिरासेन तदुत्यस्य सद्वितीयावस्य त्वमर्थस्यस्य परोक्षत्वस्य च तदर्थस्यस्य निरसनान वैयधिकरण्यादिचोद्यस्यावसरोऽस्तीति । तदिदमभिधीयते । तत्वमर्थेन सम्पृक्तो नानात्वं विनिवर्तयेत् । नापरित्यक्तपारोक्ष्यं त्वंतदर्थ सिस्पृप्सति ॥ ७७ ॥ कस्मात्पुनः कारणातदर्थोऽद्वितीयलक्षणस्खमर्थेन प्रत्य-


सर्पभ्रमो निवर्तते । अथ वैयधिकरण्यपरिहाराय तत्पदमपि त्वम्पदार्थमवबोधयतीत्युच्येत तर्हि पौनरुक्तयबुद्धिसंकरपदान्तरवैयथ्यैकपद्वाक्यत्वादिदोषाः प्रादुःस्युरित्याक्षिपति कथं पुनरिति । समाधत्ते उच्यत इति । त्वमथपाधौ तच्छब्देनाद्वितीयब्रह्मरूपत्वविधानात्तदनवबोधनिवृत्त्या तत्कार्य संसारित्वमपि निवर्तत इत्येतावद्वदामः । न त्वनयोः पदयोस्तदर्थयोर्वा साक्षान्निवत्र्यनिवर्तकभावोऽस्तीति तस्मान्न त्वदुक्तवैयधिकरण्यादिदोषाणां प्रसक्तिरित्यर्थः । उक्तऽर्थे श्लोकमवतारयति तदिदमभिधीयत इति । तच्छब्दार्थो विधीयमानस्त्वमर्थेनोद्देश्येन सम्बद्धस्तदनवबोधनिवृत्त्या तद्रतं नानात्वं निवर्त्तयति । एवं त्वम्पदार्थोऽप्यपरित्यक्तपारोक्ष्यलक्षणं विरुद्धधर्म तदर्थ ब्रह्म नैकत्वेन प्रतिपद्यते तेन तद्दतमपि पारोक्ष्यं नान्तरीयकतया निवत्र्यत इत्यर्थः । संपृक्ताविति पाठे तच्छब्दार्थस्य त्वमर्थेन संपृक्तौ संपर्क सति नानात्वं निवर्तत इति योजना ॥ ७८ ॥ ननु वाक्यस्यैक्यतात्पर्यवत्वेन दुःखित्वादिनिवृत्तौ तात्पर्याभावादुभयत्र तात्पर्ये वाक्यभेदप्रसङ्गान्निवर्त्तकत्वमनुपपन्नमित्यभिप्रेत्य शङ्कते कस्मादिति । वाक्यतात्पर्यविषयैकत्वविरोधान्नान्तरीयकी दुःखित्वादि-