पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१५७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तृतीयोऽध्यायः । १ ५ ५ दुःख्खा प्रत्यगात्मा च । तत्र च प्रत्यगात्मनोऽहं दुःखात्य नेननाभिसम्बन्ध आत्मयाथात्म्यानवबोधहेतुक एव । अतोऽहमथर्योऽनर्थोपस्पृष्टत्वादज्ञानोत्याचाच हेय इति प्र त्यक्षहेतोरवसीयते । तदर्थे किं हेयं किंवोपादेयमिति ना वधियते । तत इदमभिधीयते । पारोक्ष्यं यत्तदर्थे स्यातछेयमहमर्यवत् । प्रतीचेवाहमोऽभेदः पारोक्ष्येणात्मनोऽपि मे ॥७७॥ कथं पुनस्तदर्थोऽद्वितीयलक्षणः प्रत्यगात्मोपाश्रयं सद्धि न सम्भवतीति चोदयति अत्राहेति । त्वंशब्दस्य न प्रत्यगात्ममात्राभि भ्रायकत्वं किंत्वहङ्कारविशिष्टात्माभिधायकत्वमतस्त्वंशब्दादुःखित्वादि धर्मविशिष्टोऽहङ्कारः प्रत्यगात्मा च प्रतीयते ततश्च हेयांशाः सम्भवतीति परिहरति उच्यत इति । ननूभयं प्रतीयते चेदुभयमप्युपादेयमेवास्तु किमित्येकतरस्यांशस्य हेयत्वं हेयत्वे वा प्रत्यगात्मांश उपादेयो दुः ख्यंशो हेय इति विनिगमने किं कारणमित्यत आह तत्र चेति । अनर्थहे तुत्वाद्सत्यत्वादहङ्कारस्य हेयत्वं वाक्यार्थान्वयितया साक्षिभागस्योपा देयत्वमित्यर्थः । ननु तदर्थे सर्वज्ञत्वाद्यांशस्य पुरुषार्थत्वाद्धेयत्वं नास्तीति मत्वा चोदयति तदर्थ इति । श्लोकमवतारयन्परिहरति तत इदमभिधी यत इति । अहमर्थवत्पारोक्ष्यस्य हेयत्वं कुत इत्याशङ्कयाज्ञाननिबन्धन त्वादित्याह प्रतीचेति । अहमोऽहङ्कारस्य यथा प्रतीचा प्रत्यगात्मना स हाज्ञाननिबन्धन एवाभेदस्तथा मे साक्षिस्वभावस्य परमात्मनोऽपि पा रोक्ष्येणाभेदस्तन्निबन्धन एव ततो हेयत्वमित्यर्थः । यद्वा । अहङ्कारस्य प्रत्यगात्मना सह भेदवत्पारोक्ष्येण सह परमात्मनो मम भेदोऽस्ति त स्माद्धेयत्वमित्यर्थः ॥ ७७ ॥ ननु तत्पदार्थसामानाधिकरण्यात्त्वम्पदार्थगतदुःखित्वादिकं हेयमि त्युक्तं तदयुक्तं तत्पदस्य त्वम्पदार्थानवबोधकत्वेन वैयधिकरण्यात्तस्मि न्नारोपितसंसारित्वनिवर्तकत्वानुपपत्तेः । न हेि. शुक्तिविषयज्ञानाद्रज्जु