अपास्तसामान्यार्थत्वादनुवादस्यत्वाद्विधीयमानेन च सह विरोधादुःखिावादेरस्तु कामं जिहासितार्थयोरसंसगों यथोपन्यस्तदोषविरहात्तत्वमर्थयोः संसर्गेऽस्तु नीलोत्पलवदिति चेनैवमप्युपपद्यते । तस्मात् । तदर्थयोस्तु निष्ठामा इयपारोक्ष्यवर्जितः । नाद्वितीयं विनात्मानं नामा नित्यदृशा विना ॥७६॥
अत्राह । किमिह जिहासितं किं वोपादिसितमिति । उच्यते । प्रत्यगात्मार्थविधायिनरूखम्पदादुभयं प्रतीयतेऽहं
विति । तौ तत्त्वंशब्दावन्योन्यमभिसमीक्ष्यमाणौ तस्मात्स्ववाच्यार्थसामान्यरूपाद्युत्थितौ तात्पर्यविषयैकत्वानुरोधेन परस्परविरुद्धांशं परित्यज्याविरुद्धशमात्रे व्यवस्थितौ यस्मात्तस्मादित्यर्थः ।। ७५,॥ ननु वाच्यार्थयोः परोक्षसद्धितीयत्वयोः सामान्यार्थत्वेनापास्तत्वाखितादेरनूद्यमानस्थत्वाद्विधीयमानेन सह विरोधाञ्च तयोर्वाच्यार्थयोः संसर्गाभावेऽपि लक्ष्यार्थयोः संसर्ग एवास्त्विति चोदयति अपास्तसामान्यार्थत्वादिति । अपास्तौ च तौ सामान्याथै चेत्यपास्तसामान्यार्थे । तन्द्रावोऽपास्तसामान्यार्थत्वं । तथाभूतत्वाजिहासितार्थयोरिति सम्बन्धः । श्लोकमवतारयन्परिहरति नैवमपीति । तयोस्तत्वम्पदयोर्लक्षणभूतयोर्निष्टापर्यवसानं लक्ष्यभूत आत्मा द्वित्वपारोक्ष्यवर्जितोऽखएण्डैकरसः केवलस्तत्कथं प्रकृत्यर्थयोनलोत्पलवद्विभागेनाप्रतिपत्ती. सल्यां संसर्गः स्यादिति भावः । विभागेनाप्रतिपत्तिरपि कुत इत्यत आह नाद्वितीयमिति । अद्वितीयं तत्पदलक्ष्यं ब्रह्म न प्रत्यगात्मानं विना स्वरूपं लभते तथा सत्यद्वितीयत्वायोगादात्मा च त्वम्पदलक्ष्यो नित्यसिद्धचैतन्यज्योतिषा तत्पदलक्ष्येण विना स्वरूपं न लभते । तथा सति नित्यापरोक्षचिद्रपत्वायोगात्तदेवंविभागेनाप्रतीतेरखण्डेकरसार्थनिष्ठत्वं तत्त्वम्पद्योरित्यर्थः ॥ ७६ ॥ ननु त्वंशब्दस्य प्रत्यगात्ममात्रांभिधायकत्वात्वमित्युक्त तत्र हेयांशी