यस्माच्छ्रोतृप्रसिद्धानुवाद्येव वमितिपदं तस्मादुद्दिश्यमानस्यत्वादुःखित्वादेरविवक्षितत्वमेव । विधीयमानवे हि सति विरोधप्रसङ्गो न तु विधीयमानानूद्यमानयोरिति । स्वप्रधानयोहि पदयोर्विरोधाशङ्का सामान्यालिङ्गिन्तवातयोर्न विपर्यये। अनालिङ्गितसामान्यौ न जिहासितवादिनौ । व्युत्थितौ तत्त्वमौ तस्मादन्योन्याभिसमीक्षणौ ॥७॥
दादारोपितपुरुषाकारानुवादाभावादेकविषयत्वेन विरोधास्फुरणात्केवलमयं स्थाणुरिति बुद्धिः पुरुषवुद्धिं न निवर्त्तयति यथा तथा तदसीति तावन्मात्रोक्तावपि विरुद्धाकारानुवादाभावे संसारित्वनिराकरणमापि स्फुटं न भवेदित्यर्थः ॥ ७४ ॥ ननु संसारित्वेन प्रत्यक्षमनुभूयमानस्त्वम्पदार्थः कथमसंसारिब्रह्मरूपेण प्रतिपाद्यत इत्याशङ्कय ब्रह्मस्वरूपविधानाय केवलमनूद्यमानत्वेनाविधेयत्वाद्विधेयरूपेणानूद्यमानस्य दुर्बलत्वाबाध्यत्वमेव न तु बाधकत्वशङ्कापीत्युपसंहरन्नाह यस्मादिति । पदार्थस्वभावपर्यालोचनया विरोधाभावमुक्त्वा पदस्वभावालोचनयाप्येवमित्याह स्वप्रधानयोरिति। स्वप्रधानयोः पदयोः किमिति विरोधाशङ्केत्यत आह सामान्यालिङ्गितत्वादिति । गौरश्व इति स्ववाच्यसामान्ययोरपरित्यागात्तथाभूतयोः पदयोः सामानाधिकरण्यं विरुध्यते न विपर्यये । शेषशेषिभावेन वर्तमानयोस्तु पदयोन विरोध इत्यर्थः । तदेतदाह अनालिङ्गितेति । अनालिङ्गिते परित्यक्तेऽविवक्षिते सामान्ये स्वप्रवृत्तिनिमित्तभूते शवले वाच्ये याभ्यां तत्त्वंशब्दाभ्यां तौ तत्त्वभावनालिङ्गितसामान्यौ तस्मान्न तयोविरोध इत्यर्थः । अनालिङ्गितसामान्यत्वं कस्मादित्यत आह न जिहासितवादिनाविति । तौ तत्त्वंशब्दो प्रतिपिपादयिषिताखण्डाद्वितीयवाक्यार्थविरोधाजिहासितं पारोश्यं सद्वितीयत्वं परिच्छिन्नत्वं चास्मिन्प्रयोगे न वदतो न प्रतिपादयतो यस्मादित्यर्थः । तदपि कुत इत्यत आह व्युत्थिता-