यस्मादेवम् । विपश्चितोऽप्यतस्तस्यामात्मभावं वितन्वते । दवीयःखिन्द्रियार्थेषु क्षीयते द्युतरोत्तरम् ॥ ७२ ॥ अाह । यदि वाक्यमेव यथाभूतार्थावबोधकमय कस्य हेतोरविद्योत्थापितस्य कर्तृत्वादेरुपदेश इत्युते प्रतिविधीयते । भ्रान्तिप्रसिद्धयानूद्यार्थ ततत्त्वम्भ्रान्तिबाधया । अयं नेत्युपदिश्येत तथैवं तत्वमित्यपि ॥ ७३ ॥ इममर्थ दृष्टान्तेन बुडावारोपयति । स्थाणुः स्थाणुरितीवोक्तिर्न नृबुद्धिं निरस्यति । व्यनुवादातयैवोक्तिभ्रति पुंसो न बाधते ॥ ७४ ॥
व्यवहारगोचराणां विदुषां तस्यां बुद्धौ त्वात्मविभ्रमोऽपि तस्याः प्रत्यगात्मचैतन्याभासानुविद्धतां गमयतीत्याह यस्मादेवमिात । बुद्धिप्रतिबिम्बितचैतन्याभासव्यवधानादात्मविभ्रमस्य विरलत्वदर्शनादप्येतदवगन्तव्यमित्याह द्वीयःस्विति । बुद्धेर्दूरतरेषु शरीरादिबाह्यपदार्थेष्वात्मभावो विवेकिनामपचीयत इत्यर्थः ॥ ७२ ॥ आहेति । येन वा पश्यति येन वा श्रृणोति द्रष्टा श्रोता मन्ता कर्ता बोद्धा विज्ञानात्मा पुरुषः पिप्पलं स्वाद्वत्तीति च त्वम्पदाभिधेये जीवे कर्तृत्वादिसंसारधर्मोपदेशः कस्मादित्यर्थः । एतदुत्तरश्लोकेन समाधीयत इत्याह उत्ते प्रतिविधीयत इति । भ्रान्तीति । स्थाणुर्वा पुरुषो वेति संदिग्धे पुरुष एवेति विपर्यस्ते वा विषये भ्रान्तस्य श्रोतुः प्रसिद्धपुरुषानुवादेन योऽयं पुरुषः सोऽयं स्थाणुर्न पुरुष इति पुरोवर्त्तितनस्तत्वमारो पितपुरुषाकारबाधेन यथोपदिश्यते तथाविद्याध्यारोपितकर्तृत्वाद्यनुवादेन जीवस्यापि याथात्म्यं तद्युदासेन बोध्यत इत्यर्थः ॥ ७३ ॥ एतदेव व्यतिरेकमुखेन दर्शयति इममिति । व्यनुवादाद्विगतानुवा-