पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५१
तृतीयोऽध्यायः ।

एवं तत्वमसीत्यस्माद्वैतनुत्प्रत्यगात्मनि । सम्यग्ज्ञातावमर्थस्य जायतैव प्रमा दृढा ॥ ७० ॥ प्रायगात्मनि प्रमोपजायत इत्युक्तं तत्र चोद्यते । किं यथा घटादिप्रमेयविषया ममा कादिकारकभेदानपहूवेन जायते तथैवोताशेषकारकग्रामोपमहेंन कर्तुः प्रत्यगामनीति । उच्यते। प्रत्यक्तास्य स्वतोरूपं निष्क्रियाकारकाफलम् ।

अद्वितीयं तदिद्धा धीः प्रत्यगात्मेव लक्ष्यते ॥ ७१ ॥


दार्शन्तिकमाह एवमिति । सर्वस्य कस्मान्न जायत इत्याशय पदार्थपरिशोधनाभावादित्याह सम्यग्ज्ञातत्वमर्थस्योति । सम्यग्ज्ञातत्वमर्थस्य शोधितत्वम्पदार्थस्येति यावत् ॥ ७० ॥ ननु सा किमद्वैतप्रमा कादिकारकानुपमर्दैन जायते किं वा तदुपमर्दैन । प्रथमे नाद्वैतसिद्धिः कादिद्वैतावस्थानात् । द्वितीये त्वद्वितीयत्वप्रमानुय इति शङ्कते प्रत्यगात्मनि प्रमोपजायत इत्युक्तमिति । अप्रमेयस्य प्रत्यगात्मनः समस्तक्रियाकारकफलशून्याद्वितीयस्वरूपत्वात्तत्प्रमापि तदनुरूपा समस्तप्रमात्रादिप्रपञ्चोपमर्दैनोपजायत इति मत्वा सर्वान्तरं निष्क्रियमकारकमफलमद्वयमात्मनः स्वाभाविक रूपमितरं त्वविद्याध्यारोपितमिति श्लोकेन दर्शयति उच्यत इति । विद्योत्पत्तेः प्राक्प्रमात्रादि सम्भवति । उत्पन्न विद्यस्याविद्यानिवृत्तौ प्रमात्राद्यसम्भवान्नाद्वैतविरोधः। नाप्यद्वैतप्रमानुदयस्तदुत्पत्तेः प्रागारोपितरूपेण प्रमात्रादीनां सम्भवादिति भावः । ननु कथं प्रत्यगात्मनः क्रियाकारकादिशून्यस्वरूपत्वं तस्य कर्तृत्वेन भोक्तृत्वेन च प्रतीयमानत्वादित्याशक्य तत्प्रतीतेरन्तःकरणोपाधिविशिष्टविषयत्वान्न विरोध इत्याह तदिद्धति । तदिद्धा चैतन्याभासदीप्तेत्यर्थः ॥ ७१ ॥