पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

डारेण निवृतिः । बुभुत्सोच्छेदिनी चास्य सदसीत्यादिना दृढम् । प्रतीचि प्रतिपतिः स्यान्नासौ मानानतराद्भवेत् ॥६७॥ कथं पुनर्वाक्यं प्रतिपादयत्येवेति चेदृष्टान्तोक्तिः । जिज्ञासोर्दशमं यद्वन्नवातिक्रम्य ताम्यतः । त्वमेव दशमोऽसीति कुर्यादेवं प्रमां वचः ॥ ६८ ॥ सा च तत्वमस्यादिवाक्यश्रवणजा प्रमोत्पन्नात्वादेव न च नैवमिति प्रत्ययान्तरंजायते । तदेतदृष्टान्तेन प्रतिपादयति। दशमोऽसीति वाक्योत्था न धीरस्य विहल्यते । आदिमध्यावसानेषु न नवस्वस्य संशयः ॥ ६९ ॥


दिना । सर्वसंसारविभ्रमाधिष्टानस्य प्रत्यगात्मनो मानान्तरायोग्यत्वातत्प्रतिपादकवाक्यजन्यमेव ज्ञानं तन्निवर्तकमित्यर्थः ॥ ६७ ॥ ननु प्रमाणान्तरादशाक्यामधिगतिं वाक्यं कथं कर्तु शाकुयादित्याक्षिप्य दृष्टान्तप्रदर्शनेन समाधत्ते कथमित्यादिना । नवातिरेकेण दशमं जिज्ञासोस्ताम्यतः क्रुिश्यतस्त्वमेव दशमोऽसीति वचो यथा प्रमां कुर्यादेवं तत्त्वमस्यादिमहावाक्यमपि ब्रह्मजिज्ञासोः प्रमां कुर्यादित्यर्थः ॥ ६८ ॥ ननु दशमस्त्वमसीति वाक्यादुत्पन्ना धीः प्रमाणान्तरबाधाभावात्प्रमाणं भवतु तत्त्वमस्यादिवाक्यजन्या तु द्वैतप्रत्ययैः पूर्वोत्पलैरुत्तरकालीनैर्वा बाधात्प्रमा न भविष्यतीत्याशङ्कय समस्तद्वैतप्रत्ययवाधेनैवोत्पन्नत्वान्न पूर्वकालीनैबध्यते । उत्तरकाले तु तद्विरुद्धप्रत्ययान्तरमेव नोत्पद्यत इत्येतदृष्टान्तेन प्रतिपाद्यति सा चेति । दशमोऽसीति । दशमशानोत्पत्तेः पूर्व तत्समकालमुत्तरकालं वा नवसु बालेषु परिगणयतः शायाभावाद्दशमोऽसीति वाक्याट्टढप्रतीतिरुपजायत इत्यर्थः ॥ ६९ ॥