पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
प्रथमोऽध्यायः ।


अभ्युपेयैवमुच्यते । न तु ययावस्थितात्मवस्तुविषयं ज्ञानमस्ति तत्प्रतिपादकप्रमाणाभावात्
 यावन्त्यश्रेह विद्यन्ते श्रुतयः स्मृतिभिः सह ।
 विदधत्युरुयालेन कर्मातो भूरिसाधनम् ॥ १४ ॥
स्यात्प्रमाणासम्भवो भवदपराधादिति चेतन्न यतः ।
 यत्नतो वीक्षमाणोऽपि विधिं ज्ञानस्य न कचित् ।
 श्रुतौ स्मृतौ वा पश्यामि विश्वासो नान्यतोऽस्ति नः ॥


 अभ्युपगतं चेज्ज्ञानं मुक्तिः स्वीक्रियतां “तमेव विदित्वातत एव तिमृत्युमेती'तिश्रुतेरित्याशङ्कय द्वितीयं पूर्वपक्षमाह अभ्युपेत्यैवमिति । अभ्युपगम्य ब्रह्मशानं तस्य मुक्तौ वैयथ्र्यमुक्तं न तु तद्रह्मज्ञानमस्ति तत्प्रतिपादकप्रमाणाभावादित्यर्थः । प्रमाणाभावमेव दर्शयति यावन्त्य इति । श्रुतिलक्षणं स्मृतिलक्षणं वा प्रमाणमिह संभावितं तदुभयं कर्मविधायकमेव न ज्ञानविधायकम् । यदि शानमपि किंचिद्भवदभिमतमस्ति तदा तद्धिश्धायकमपि वाक्यमुपलभ्येत । न चोपलभ्यते । ततश्च शानविषयप्रमाणानुपलब्ध्या झानलक्षणप्रमेयाभावावगम इत्यर्थः । उरुयलन्न महता तात्पर्येणेत्यर्थः । भूरिसाधनं मोक्षं प्रत्यपि पुष्कलकारणमित्यर्थः ॥ १४ ॥

वे दान्तवाक्यशक्तितात्पर्यापारिशानचिजूनृम्भितमिदं प्रमाणाभाववचनमिति शङ्कते स्यात्प्रमाणेति । एतदुत्तरत्वेन श्लोकमवतारयति तन्नेति । यत्ततस्तात्पर्यतो वीक्षमाणः पर्यालोचयन्नपि ज्ञानस्य विधि झानविपयं विधिं न पश्यामि । द्रष्टव्य इत्यादेः कर्मप्रवृत्तिहेतुभूतकत्रत्मज्ञानविषयपरत्वात्तस्य मोक्षसाधनझानविषयत्वाभावादिति भावः । श्रुतिस्मृतिनिरपेक्षाणामपि सोगतादीनां मोक्षाय शाने प्रवृत्तिर्द्धश्यत इत्यत आह विऽश्वास इति । नो वेदप्रमाणानुसारिणामस्माकं श्रुतिस्मृतिव्यतिरेकेण न प्रवृत्तिरितरप्रवृत्तेभ्रान्तिमूलतया प्रामाणिकत्वानङ्गीकारादित्यर्थः ॥१५॥