पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


देहारम्भकयोश्च धर्माधर्मयोज्ञानिना सह कर्मिणः समानौ चोद्यपरिहारौ ।
 वर्तमानमिदं याभ्यां शरीरं सुखदुःखदम् ।
 आरब्ध पुण्यपापाभ्या भागादव त्याः क्षयः ॥ १२ ॥
काभ्यप्रतिषिद्धकर्मफलत्वात्संसारस्य तन्निरासेनैवाशेषानर्यनिरासस्य सिद्धत्वाकि नित्यानुष्ठानेनेति चेतन्न तद
 नित्यानुष्ठानतयैनं प्रत्यवायो न संस्पृशेत् ।
 अनादृत्यामविज्ञानमतः कर्माणि संश्रयेत् ॥ १३ ॥


त्वात्परिहृतत्वान्नारकीं नरकसम्बन्धिनीं जनिं शरीरग्रहणलक्षणां न प्राोतिउपलक्षणमेतत्तिर्यगादिजन्मप्रासेरपि ॥ ११ ॥

 भवत्वेवमप्रारब्धफलयोः कर्मणोः परिहारः प्रारब्धयोस्तु कथमित्यत आाह देहारम्भकयोश्चेति । प्रारब्धफलयोस्तु कर्मणोभगादेव क्षय इत्यत्र नावयोर्विवाद् इत्युत्तरश्लोकस्य तात्पर्यमुक्तम् ॥ १२ ॥

 काम्यप्रतिषिद्धकर्मफलत्वात्संसारस्य तत्परिहारेण परिहारोऽस्तु नित्यनैमित्तिकानुष्ठानं पुनरनुपयुक्तं तयोः सुखदुःखसाधनत्वाभावान्मोक्षस्य कर्मजन्यत्वानङ्गीकाराखेल्थाक्षिपति काम्यप्रतिषिद्धेति । समाधत्ते तन्न तद्करणादपीति । नित्याकरणस्य संसारानर्थकारणप्रत्यवायहेतुत्वात्प्रत्यवायपरिहारद्धारेण तदनुष्ठानमप्युपयुक्तमित्यर्थः । कथमकरणाद्भावात्प्रत्यवायस्य भावस्योत्पत्तिरिति च नाशङ्कनीयं योग्यानुपलब्धेरभावज्ञानहेतुत्ववदकरणस्यापि प्रत्यवायहेतुत्वोपपत्तेरिति तदेतदाह नित्यानुष्ठानत इति । अवान्तरप्रकरणमुपसंहरति अनादृत्येति । अभ्युपगतेऽपि शाने कर्मव मोक्षसाधनमित्यर्थः ॥ १३ ॥