पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१४९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तृतीयोऽध्यायः । १४७ मोहताकार्याश्रयत्वाज्ज्ञातृत्वविक्रिययोः पूर्वत्रेदंममज्ञा नान्वयः प्रदर्शितः । अथाधुना तळद्यतिरेकेण व्यतिरेक विक्रियाज्ञानशून्यावानेदं न च ममात्मनः । उत्थितस्य सतोऽज्ञानं नाहमज्ञासिषं यतः ॥ ६२ ॥ आत्मानात्मविवेकस्येयताप्रदर्शनार्थमाह । वाक्यप्रत्यक्षमानाभ्यामियानर्यः प्रतीयते । अनर्थकृतमोहानिर्वाक्यादेव सदात्मनः ॥ ६३ ॥ णोऽहङ्कारेणानुपक्रियमाणत्वादनपक्रियमाणत्वाच्चाहमहङ्कारो घटादिः वन्मम न भवति ममप्रत्ययविषयो न भवति मोहमात्रमेव व्यपाश्रयो यस्य चिदाभासस्य तद्वत्वादिदं तु स्यादिदामित्यवभास्यत्वमात्रमेव स्या दित्यर्थः । उपकारकत्वादिशशून्ये ह्यहङ्कारे तत्साक्षिण इदमित्येव प्रत्य यस्य दर्शनात्तादृशे घटादाविदमित्येव प्रत्ययः स्यादुपकारकत्वादिधर्म सहिते ममप्रत्ययः स्यादिति द्रष्टव्यम् ॥ ६१ ॥ अज्ञानतत्कार्यव्यतिरेक इदंममेति च ज्ञानद्वयव्यतिरेकं प्रदर्शयितुमु तरश्लोक इति वक्ष्यन्प्रदर्शितमन्वयमनुवदति मोहेति । यस्मादज्ञानोपा धिकमात्मनोऽहङ्कारसाक्षित्वं यस्माच्च तत्कार्यपरिणाम्यन्तःकरणसम्ब न्धोपाधिकमात्मनः परिणामाश्रयत्वं तस्मादज्ञानतत्कायपाधिद्वारेरणा त्मनोऽहङ्कारे घटादौ चेदं ममेति च ज्ञानद्वयं भवतीत्यर्थः । विक्रियेति । सुषुप्तौ शब्दाद्याकारपरिणामलक्षणविक्रियाभावादज्ञानाभावाद्येदंज्ञानं ममज्ञानं च न दृश्यत इत्यर्थः । ननु कथमज्ञानशशून्यत्वं सुषुझेऽप्यज्ञानस्य साधितत्वादित्याशङ्कय तत्राज्ञोऽहमिति स्फुटतरव्यवहाराभावात्त च्यत इत्याह उत्थितस्येति । उत्थितस्यैव सतो नाहमज्ञासिषमिल्यज्ञानं सम्भवतीति । यत इत्याकाङ्कितपदपूरणेन योजना ॥ ६२ ॥ तिपर्यन्तता तत्प्रदर्शनायोत्तरश्लोक इति सम्बन्धमाह आत्मानात्मेति ।