एकस्यैव ज्ञातुरन्तबह्यनिमितभेदाद्विभिनेऽपि विषय इदम्ममेतिज्ञानं द्वैरूप्यं जायत इत्युक्तम् । अत्रोपक्रियमाणापक्रियमाणयैव ज्ञातुर्विषये मम प्रत्ययो भवति विपये चेदंप्रत्यय इति कथ्यमवगम्यते । अवगम्यतामन्वयव्यतिरेकाभ्याम् । तत्कथयमित्याह । अनुपक्रियमाणत्वान्न ज्ञातुः स्यादहं मम । घटादिवदिदं तु स्यान्मोहमात्रव्यपाश्रयात् ॥ ६१ ॥
लक्षणसम्बन्धाद्भवतीत्यर्थः । कुतोऽयं विभाग इत्यत आह अज्ञानेति । अज्ञानमुपाधिर्यस्येत्यज्ञानोपाधिचैतन्याभासस्तेनेदमिति प्रत्ययः स्याद्तःपरं बाह्योपकारादिसम्बन्धवशादहमो ममेति विक्रियाज्ञानपरिणाम स्यादित्यर्थः । यद्वा । अहङ्कारापन्नस्य ज्ञातुर्घटादौ विषय इदमिति ममेति च ज्ञानद्वयमुत्पद्यते । तत्रेदमिति ज्ञानमज्ञानमात्रोपाधिकं ममेति ज्ञानमहमो विक्रियातः स्यादुपकारकमपकारकमित्यहङ्कारविक्रियोपाधिकामित्यर्थः ।॥ ६० ॥ उक्तविभागे प्रमाणदर्शनायोत्तरश्लोक इति वृत्तं कीर्तयन्नाह एकस्यैवेति । अन्तबह्यनिमित्तभेदाद्न्तनिमित्तं चैतन्याभासो बाह्यनिमितमुपकारादिविषयज्ञानपरिणामस्तद्रेदाद्विभिन्नेऽपि विषयेऽन्तःकरणे घटादौ चेदमिति ममेति च ज्ञानद्वयं जायत इत्युक्तमित्यर्थः । यद्धा । एकस्मिन्नेव घटादौ विषये ज्ञातुरेकस्यैवाज्ञानमात्रोपाधिवशाद्धीदमिति ज्ञानमुपकारकमपकारकमित्यहङ्कारविक्रियावशान्ममेदमिति च ज्ञानद्वयं जायत इत्युक्तमित्यर्थः । अत्रेति । अहङ्कारोपाधिकस्य घटादिविषये स्वस्वामित्वलक्षणसम्बन्धान्ममप्रत्ययो भवति । अज्ञानमात्रोपाधिकस्यान्तःकरण इदंप्रत्ययो भवतीति कथमवगम्यत इत्यर्थः । अथवोपकारापकाराविषयभावं प्रतिपन्नस्य विशिष्टस्य ज्ञातुरुपकारापकारसाधन त्वविशिष्ट ममप्रत्ययो भवति केवलस्य ज्ञातुः केवले घटादाविदंप्रत्यय इति कुतोऽवगम्यत इत्यर्थः । अनुपक्रियमाणत्वादिति । ज्ञातुः साक्षि-