पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४५
तृतीयोऽध्यायः ।

रूपावच्छेदायाहंवृतिव्यमियते । तयावच्छिन्नं सत्कूटस्यप्रत्यगात्मोपादानावबोधरूपस्याव्यवधानतया विषयभावं प्रतिपद्यत इति । तत्र तयोज्ञत्रहन्तारूपयोरवभासकावभास्यत्वसम्बन्धव्यतिरेकेण नान्यत्सम्बन्धातरमपपद्यते । अहन्तारूपं चात्मसात्कृत्वाहङ्कञ्चुकं परिधायोपकार्यचोपकारकावक्ष्मः सन् बाह्यविषयेणोपकारिणापकारिणा वामात्मीयं सम्बन्धं प्रतिपद्यते । तदभिधीयते । इदंज्ञानं भवेज्ज्ञातुर्ममज्ञानं तथाहमः । अज्ञानोपाधिनेदं स्याद्विक्रियातोऽहमो मम ॥ ६० ॥


मित्तं रूपमन्तःकरणस्य तदाकारपरिणामस्तेन तस्यावच्छेदाय जानामीति तद्विशेषितत्वायाहंवृत्तिरहमित्याकारा जायतेऽन्यथा स्वपरवेद्ययोर्विशेषाभावप्रसङ्गादित्यर्थः । तथाप्यन्तःकरणस्य कथं प्रतीतिरित्यत आह तयावच्छिन्नमिति । कूटस्थो यः प्रत्यगात्मा तदुपादानस्तज्जन्यो यो ऽवबोधरूपोऽहंकृत्यवच्छिन्नान्तःकरणप्रतिबिम्बितश्चिदाभासंस्तदधीनत्वात्तस्य जन्यत्वं तस्येन्द्रियव्यवधानमन्तरेणाहंवृत्त्यवाच्छिन्नमन्तःकरणं विषयत्वं प्रतिपद्यत इत्यर्थः । तथैापि घटादिवदात्मीयतया किमिति तत्र तयोरिति । घटादीनामात्मीयत्वेनावभासस्तर्हि कथमित्याशङ्कय सम्बन्धान्तरसम्भवादित्याह अहन्तारूपामात । अहङ्कारात्मकमन्तःकरणमात्मसात्कृत्वाहंपरिच्छेदं चात्मन्यध्यस्य व्यवस्थितः प्रत्यगात्मा तत एव हेतोर्घटाद्युपकारापकारविषयत्वयोग्यो भवति तत एव घटादिविषयैरात्मीयत्वेन सम्बन्धं प्रतिपद्यते तत एव स्वस्वामिलक्षणसम्बन्धान्तरस्य विद्यमानत्वाद्धटादीनां ममेतिबुद्धिविषयत्वमित्यर्थः । उपपादितेऽर्थे श्लोकमवतारयति तदभिधीयत इति । ज्ञातुः साक्षिण इदमिति ज्ञानं साक्षात्स्वावभास्येऽन्तःकरणेऽहंवृत्यवच्छिन्ने स्यात्तस्यैव चाहमोऽहङ्कारतामापन्नस्याहङ्कञ्चकस्य ममेति ज्ञानं घटादिपूपकार्योपकारकभाव-