कश्चिदतिक्रान्तं प्रतिस्मृत्य दृश्यावादहमप्येवंलिङ्गं स्याद्रष्टुरात्मन इति नियुक्तिकमभिहितमित्याह । किंकारणम्। अहंतज्ज्ञात्रोविवेकामसिद्धेर्यथेह घटदेवदत्तयोाह्यग्राहकावेन स्फुटतरो विभागः प्रसिद्धो लोके न तथेहाहङ्कारतज्ज्ञात्रोविभागोऽस्तीति तस्मादसाध्वेतदभिहितमिति । अत्रोच्यते । दाह्यदाहकतैकत्र यथा स्यावह्निदारुणोः । ज्ञेयज्ञातृकतैवं स्यादहंज्ञात्रोः परस्परम् ॥ ५९॥ एवं तावदविद्योत्थस्यान्तःकरणस्य बाह्यविषयनिमित्त-
उत्तरश्लोकस्य नातीतानन्तरश्लोकेन सम्बन्धः किन्तु दृश्यत्वादहमप्येवमित्यनेनैव सम्बन्धं कथयस्तद्यावामाशङ्कामाह कश्चिदतिकान्तमिति । अहं पश्यामीत्यहम एव दृश्यस्य द्रष्टुत्वानुभवादहंद्रष्ट्रोविभागो नास्ति तस्मादहमो घटवदृश्यत्वेनैव स्वव्यतिरिक्तद्रष्ट्रनुमापकत्वमनुपपन्नमित्यर्थः । यद्यप्यहं पश्यामीत्यत्र ग्राह्यत्वं ग्राहकत्वं चैकाश्रयं प्रतीते तथाप्यन्यत्रानयोविभिन्नाधिकरणत्वदर्शनाच्चिद्धातोरहकारव्यतिरेकेण सुषुप्त्यादौ द्रष्टत्वदर्शनादहङ्कारस्य च सुखदुःखादिवेद्यधर्मविशिष्टस्य घटादिवद्रष्तृत्वानुपपत्तेाह्यत्वमेव न ग्राहकत्वम् । ग्राहकत्वं ह्यहकारात्मनोरैक्याध्यासादात्मगतमेव विशिष्टगतत्वेन प्रतीयते । यथा केवलं वह्निगतमेव दग्धृत्वं वह्निविशिष्टदाह्यकाष्ठगतत्वेन प्रतीयते तस्माद्राहकानुमापकत्वमुपपद्यत इति परिहरति अत्रोच्यत इति । दाह्येति ॥ ५९॥ ननु यदि घटादिवदहङ्कारोऽपि साक्षिचैतन्यविषयस्तर्हि विषयत्वाविशेषाद्धटादाविवाहङ्कारेऽपीमं पश्यामीतिवन्ममबुद्धिः किं न स्याह पश्यामीत्येव कुतः प्रतीतिस्तथा घटादावप्यहमितिबुद्धिः किं न स्यान्मतिबुद्धिरेव कुत इत्याशङ्कय तदुपपाद्यन्नुत्तरश्लोकमवतारयितुं तदुपयोगिवृत्तमर्थं तावदनुवदति एवमिति । बाह्याः शब्दादयो विषयास्तन्नि-