वधानेनात्मप्रतिपतिः साक्षात्प्रतिपतिर्भवति *यमेवैष वृणुते तेन लभ्य” इति श्रुतेः । आत आह । लिङ्गमस्तित्वनिष्ठत्वान्न स्याद्वाक्यार्थबोधकम् । सदसाद्युत्थितात्मायमतो वाक्यात्प्रतीयते ॥ ५७ ॥ ननु यदि व्यावृत्तसदसविकल्पजालं वस्वभीष्टं वाक्याद्भवतस्तथापि तूत्सार्यते वाक्यविषया तृष्णा । यस्मादन्तरेणापि वाक्यश्रवणं निरस्ताशेषविकल्पमागोपालावि पालपण्डितं सुषुझे वस्तु सिद्यमतो नाथ वाक्यश्रवणेन । धस्य सुषुझे सम्भवात् । यदि हि सुषुझेऽज्ञानं नाभवि-
क्षात्प्रातिपत्तिमर्माभूत्कि तयेत्याशङ्कयासाधारणाकारेण साक्षादाधिगतिमक्षसाधनामिति श्रूयत इत्याह यमेवैष इति । यमेव केवलं निविशेषणमेवात्मानमेष साधको वृणुते निरन्तरं तन्निष्ठतया भजते
तेन परमात्मनायमात्मानेन साधकेन लभ्यः कथं तस्यैष आत्मा स्वां ततुं तस्य साधकस्य प्रकृतः प्रत्यगात्मा स्वामसाधारणां समस्तविशेषणनिर्मुक्ततया निर्विकल्पां ततुं विवृणुते विवृतां करोति स्पष्टमभिव्यञ्जयतीत्यर्थः । यद्वा । यमेव साधकमेवैष परमेश्वरो मामयं जानात्वित्यनुगृह्णाति तेन साधकेनायं लभ्यः । शेषं पूर्ववत् । उत्तेऽर्थे श्लोकमवतारयति अत आहेति । लिङ्गस्यास्तित्वनिष्टत्वादस्ति कश्चिदात्मेति धमिसद्भावमात्रनिष्ठत्वात्सद्सदादिविकल्पशून्यासाधारणस्वभावबोधकं न भवति ततस्तत्प्रतिपत्तिवक्यादेवेत्यर्थः ॥ ५७ ॥ ननु गोपालाविपालपण्डितपर्यन्तानां प्राणिनामशेषविकल्पहीनवस्तुनः सुषुते वाक्यमन्तरेण सिद्धत्वात्पुनर्वाक्यवैय्यथ्र्यमापतितामिति शङ्कते नन्वित्यादिना । कायपाधिभेदस्य विलीनत्वेऽपि सर्वनर्थहेत्वज्ञानस्य सुषुझेऽपि विद्यमानत्वान्न वाक्याधिगम्यं निर्विकल्पकं वस्तु तत्र सिद्धमिति परिहरति नैतदिति । अज्ञानसद्भावमेव विपक्षे बाधक-