ननु द्रष्टदर्शनदृश्यानां जाग्रत्स्वशसुषुझेष्वागमापायदर्शनाद्यत्साशिवको तेषामागमापायौ स अागमापायविभागरहित आत्मा यया यनिबन्धनौ जगतः प्रकाशाप्रकाशौ सप्रकाशाप्रकाशविभागरहितः सूर्य इति । यदा
चैवं तदा वाक्यावगमस्यार्थस्यानुदितानस्तमितविज्ञानमात्रस्वभावस्यान्नूमानेनेव वाक्यस्य
प्रातिपन्नात्वात्पुनराप
निर्विषयत्वप्रसङ्गः । नैष दोषो लिङ्गव्यवधानेन ताप्रतिपतेः । ननु साक्षादपरोक्षादात्मस्वभावेनानात्मनो हानांपादानयोः सम्बन्धग्रहणात्कमतिशयं वाक्यं कुर्यात् ।
मैवं वोचो लिङ्गाधीनावातात्प्रतिपतेः । न हि लिङ्गव्य-
एवमन्वयव्यतिरकयोरात्मावगतिहेतुत्वे प्रपष्चिते पुनरपि वाक्यस्य निर्विषयत्वं प्राप्तमिति सांख्यमतमुत्थापयति ननु द्रष्टदर्शनदृश्यानामिति । सप्रकाशाप्रकाशविभागरहितः सूर्य इति । प्रतिक्षणं जायमानप्रकाशरहितः सूर्य इत्यर्थः । लिङ्गजनितविज्ञानस्य व्यवहिततया परोक्षतया वस्तुग्राहकत्वादपरोक्षतया ग्रहणाय वाक्यमेवापेक्ष्यत इति समाधत्ते नैष दोष इति । यद्वा । सामान्योपाधौ गृहीतव्याप्तिकेन लिङ्गेन व्याप्ति प्रति सम्बन्धिभूतसामान्यतिरस्कृततयात्मनोऽग्रहणादतिरस्कृतस्वरूपमात्रग्रहणाय वाक्यमेवापेक्ष्यत इति समाधत्ते नैष दोष इति । ननु द्रष्टदर्शनदृश्यानां सर्वेषामनात्मनामागमापाययोः साक्षादपरोक्षस्वभावेनैव साक्षिणा साक्ष्यसाक्षिभावसम्बन्धस्य गृहीतत्वात्तयोः साक्ष्यत्वेन साक्ष्यनुमानमपि साक्षादपरोक्षस्वभावेनैव भवेत्तस्मादपरोक्षझानार्थमपि न वाक्यापेक्षा स्यादिति पुनश्चोदयति ननु साक्षादिति । दृष्टान्तदाष्ठन्तिकान्वितसाधारणाकारस्यैवानुमानप्रमेयत्वादन्यथानुमानानुदयात्ततश्ध साधारणाकारतिरस्कृतत्वेनानुमानादात्मप्रतिपत्तिर्न तु निर्विशेषासाधारणाकारेण साक्षात्प्रतिपत्तिस्तस्मादपरोक्षज्ञानोत्पत्तये वाक्यापेक्षेति समाधत्ते मैवं चोच इति । नन्वसाधारणाकारेण सा-