न्यायसिद्धमतो वक्ति दृष्टेष्टारमात्मनः ।
न पश्येत्प्रत्यगात्मानं प्रमाणं श्रुतिरादरात् ॥ ५० ॥
अनुमानाविषयत्वेऽन्यदपि कारणमुच्यते ।
प्रत्यक्षस्य पराक्वान्न सम्बन्धग्रहणं यतः ।
आत्मनोऽतोऽनुमियास्यानुभवो न कथञ्चन ॥५१॥
एवमयं प्रमातृप्रमाणप्रमेयव्यवहारः सर्व एव पराचीनविषय एव न प्रतीचीनमात्मानमवगाहयितुमलम् ।
एवं च सत्यनेनैव यथोक्तोऽर्थोऽवसातुं शक्यत इत्याह ।
प्रमाणव्यवहारोऽयं सर्व एव पराग्यतः ।
सुविचार्याप्यतोऽनेन युष्मद्येवं दिदृक्षते ॥ ५२ ॥
ऋात्पराग्भूतादूपाद्याश्रयाञ्चातो घटादेवैिपरीतमात्मानं प्रत्यक्षरूपतया दृष्टया कोऽपि न पश्यतीत्यर्थः ॥ ४९ ॥ इत्थमर्थमुपवण्र्य तत्र श्रुतिमवतारयति न्यायसिद्धमिति । यतो रूपादिहीनत्वमतो “न दृष्टेष्टारं पश्येरि'त्यादिका प्रमाणभूता श्रुतिईष्टष्टारमात्मनः स्वस्य च तं प्रत्यग्भूतमात्मानं न पश्येरित्युक्तयुक्तिसिद्धं तात्पर्यतो वक्तीत्यर्थः । यद्वा । दृटैरात्मनः स्वरूपद्रष्टारं न पश्येदित्यर्थः ॥ ५० ॥ अनुमानविषयत्वे निराकृते सत्यर्थापत्यादिविषयत्वमपि निराकृतमेव भवतीति मन्यमान आाह अनुमानेति । प्रत्यक्षस्येति । प्रत्यक्षस्याविगोचरतया तद्रहितात्माविषयत्वादनुमानादप्यात्मा नानुभूयते नाप्यथर्थापत्यादिभिरित्यर्थः ॥ ५१ ॥ एवमुक्तयुक्तिभिरात्मनः प्रमाणान्तरागोचरत्वं निश्चेतव्यमित्युपसंहराति एवमिति । यथोक्तोऽर्थ आत्मनः प्रमाणान्तरराविषयत्वमित्यर्थः । अनेन युष्मद्येवेति । प्रत्यक्षादिना युष्मद्यनात्मन्येव दिदृक्षां करोतीत्यर्थः ॥ ५२ ॥