सामग्री पर जाएँ

पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
तृतीयोऽध्यायः ।

प्रामाण्यं

सप्तपरुषप्रबोधकवाक्यस्येव

नित्यावगतिरूपत्वादन्यमानानपेक्षणात् । शब्दादिगुणहीनावात्संशयानवतारतः ॥ ४७ ॥ तृष्णानिष्ठीवनैनोमा प्रत्यक्षाचैः प्रमीयते । प्रत्यगात्मत्वहेतोश्रय स्वार्थत्वादप्रमेयतः ॥ ४७ ॥ श्रुतिरपीमभर्थ निर्वदति दिदृक्षितपरिच्छिन्नपरायूपादिसंश्रयात् । विपरीतमतो दृष्ट्या स्वतोबर्ड न पश्यति ॥ ४९ ॥


वक्तव्यमित्यय ततश्च सिद्धवस्तुनिष्ठ कार्यनिष्ठं वा यद्वाक्यं पौरुषेयं तन्मानान्तरसापेक्षं दृष्टमिति पौरुषेयत्वमेव सापेक्षत्वे प्रयोजकम् । इह पुनर्वेदान्तेषु तदभावान्मानान्तरायोग्यविषयत्वाञ्च सुतरां मानान्तरानपेक्षत्वम् । सुप्तपुरुषप्रबोधकवाक्यस्येव बोध्यपुरुषमात्रविषयतया तदनवबोधनिवर्तनेन प्रामाण्यं चोपपन्नमिति भावः । उत्क्तऽर्थे श्लोकमवतारयति अयमारम्भ इति । स्वभावतोऽवगतिरहितस्य मानान्तरापेक्षा दृष्टा । अात्मनः व्यवकूटस्थस्यावगतिरूपत्वेनमानान्तरानपेक्षत्वात्प्रत्यगात्मत्वादेव धानाभावात्स्वार्थत्वादेवान्योपभोग्यताभावादविषयत्वेन च प्रमेयतायोग्यत्वाच्छूोत्रादिप्रवृत्तिविषयशब्दादिगुणरहितत्वादहमस्मि न वेति संदेहेहतात्मस्वभावत्वेनानुमानादिप्रवृत्त्ययोग्यत्वाड्राहकप्रवृत्त्युत्तरकालीनदिदृक्षाप्रयुक्तकरणव्यापारजन्यतया तृष्णाकार्यभूतैः प्रत्यक्षादिकैःरात्मा न विषयीक्रियत इत्यर्थः ॥ ४७ ॥ ४८ ॥ प्रत्यक्षाद्यविषयत्वप्रतिपादकश्रुतितात्पर्याभिधायक उत्तरश्लोक इत्याह श्रुतिरपीति । दृश्यदेशादिपरिच्छिन्नपराग्भूतरूपादिविषयत्वात्प्रत्यक्षदृष्टेस्तथा तद्विपरीतमदृश्यमपरिच्छिन्तं प्रत्यग्भूतं रूपादिरहितं स्वप्रकाशमात्मानं न पश्यतीत्यर्थः । यद्वा । दिदृक्षिताद्दश्यात्परिच्छि-