प्रमाणान्तरानवष्टब्धं निरस्ताशेषकार्यकारणात्मकद्वैतप्रपञ्चं सत्यज्ञानानन्दलक्षणमात्मानं तत्त्वमस्यहंब्रह्मास्मीत्यादिवाक्यं संशयितमिथ्याज्ञानाज्ञानप्रध्वंसमुखेन साक्षादपरोक्षात्करतलन्यस्तामलकवत्प्रतिपादयत्येवेत्यसकृदभिहितम् । तत्र केचिदाहुः । तत्त्वमस्यादिवाक्यैयेथयावस्यितवस्तयायात्म्यान्वाख्याननिष्टर्न यथोक्तोऽर्थः प्रतिपतुं शक्यतेऽभिधाश्रुतित्वातेषाम् । न हि लोके ऽभिधाश्रुतेः प्रमाणान्तरनिरपेक्षाया नद्यास्तीरे फलानि सनतीत्यादिकायाः प्रामाण्यमभ्युपगतम् । अतो नियोगमखेनैवाभिधाश्रतेः प्रामाण्यं युक्तं प्रमाणान्तरनिरपेक्षत्वानियोगस्य । अस्य परिहारार्थमशेषप्रत्यक्षादिप्रमेयत्वनिराकरणद्वारेणातीन्द्रियार्थविषयावादभिधाश्रतेः
खीति । दुःखित्वादिप्रत्यय आागमापायित्वादधुवोऽवगत्यन्तः प्रमित्यन्तो येन साक्षिणाभाति स एव सर्वज्ञः परमेश्वरो ममात्मेति वाक्यार्थधीर्भवतीत्यर्थः ॥ ४६ ॥ एतदेवमनुवदति प्रमाणान्तरेति । उत्तरश्लोकद्वयव्यावत्र्यामाशङ्कामाह तत्र केचिदिति । ननु किमिति सिद्धवस्त्वनुवादनिष्टै प्रतिपत्तुं न शक्यत इत्यतं आह अभिधाश्रुतित्वादिति । विधिपदरहितवाक्यत्वादित्यर्थः । अस्याप्यनधिगतार्थगन्तृत्वात्प्रामाण्यमस्त्वित्याशङ्कयाह न हि लोक इति । सिद्धार्थविषयवाक्यस्य नद्यास्तीरे फलानि सन्तीत्यादिवत्सापेक्षत्वेनाप्रामाण्यं भवतीति यतस्ततः कार्यपरत्वं वाक्यस्याभ्युपेयं कार्यार्थस्य प्रमाणान्तरायोग्यत्वात्प्रमाणान्तरायोग्यविषयस्य च वेदस्य निरपेक्षप्रामाण्यसम्भवादित्युपसंहरति अत इति । उत्तरश्लोकयोस्तात्पर्यमाह अस्य परिहारार्थमिति । नहि सिद्धार्थविषयत्वं प्रमाणान्तरसापे क्षत्वे प्रयोजकं लोके गामानयेत्यादिप्रवर्तकवाक्येष्वपि तद्दर्शनात् ।