त्यादिः स युक्तिभिरुपपादित इति कृत्वोपसंहियते । गृहीताहम्पदार्थश्रेत्कस्माज्ज्ञो न प्रपद्यते । प्रत्यक्षादिविरोधाचेत्प्रतीच्युक्तिर्न युष्मदि ॥ ४४ ॥ पूर्वस्यैव पदार्थस्य विस्पष्टार्थमाह । पराञ्येव तु सर्वाणि प्रत्यक्षादीनि नात्मनि । प्रतीच्येव प्रवृतं तात्सदसीति वचोऽञ्जसा ॥ ४५ ॥ तस्मात्प्रमातृप्रमाणप्रमेयेभ्यो हीयमानोपादीयमानेभ्यो ऽन्वयव्यतिरेकाभ्यां मुञ्जेषीकावदशेषबििवक्रियासाक्षितयात्मानं निष्कृष्य तत्त्वमस्यादिवाक्येभ्योऽपूर्वादिलक्षणमात्मानं विजानीयात् । तदेतदाह । अहं दुःखी सुखी चेति येनायं प्रत्ययोऽधुवः । अवगायनत आभाति सम आत्मेति वाक्यधीः ॥४६॥
प्रतिपन्नाहम्पदार्थप्रतिपत्तौ किमित्यहं ब्रह्मास्मीति वाक्यार्थ न प्रतिपद्यत इत्युक्त पूर्ववाद्याह प्रत्यक्षादीति । उत्तरमाह प्रतीचीति । तत्त्वमस्याद्युक्तिः प्रतीचि प्रत्यगात्मनि न युष्मदि । प्रत्यक्षादि तु सुखदुःखादिविशिष्टबुद्युपाधिके वक्र्तते न प्रतीचि । ततो भिन्नविषयत्वेन प्रत्यक्षाद्यागमयोर्विरोधाभावाच्छोधिताहम्पदार्थोऽहं ब्रह्मास्मीत्यवाक्यार्थ प्रतिपद्यत एवेत्यर्थः ॥ ४४ ॥ प्रतीच्युक्तिर्न युष्मदीति श्लोकभागः प्रपञ्यत पूर्वस्यैवेति । इत्याह पराचि पराग्विषयाणीत्यर्थः ॥ ४५ ॥ यस्माच्छोधितपदार्थस्यावाक्यार्थप्रतिपत्तौ न मानान्तरविरोधस्तस्मात्तदर्थे ततः प्रतिपत्तिर्धटत एवेत्युपसंहरति तस्मादिति । अवस्थात्रयसंसृष्टस्वभावेभ्यः प्रत्यगात्मानं निष्कृष्य महावाक्यादपूर्वमनपरमनन्तरमित्याद्यतदारोपनिवर्तकवाक्यैः “सत्यं ज्ञानमनन्तमि'त्यादिस्वरूपविशेषप्रतिपाद्कवाक्यैश्च प्रमितं ब्रह्म प्रत्यक्त्वेन जानीयादित्यर्थः । अहं दुः-