यस्मालौकिकप्रत्यक्षादिप्रमाणानधिगम्योऽहंब्रह्मास्मीति अन्वयव्यतिरेकाभ्यां निरस्याप्राणतो यतः । वीक्षापन्नस्य कोऽस्मीति तदसीति श्रुतिर्जगौ ॥ ५३ ॥ सोऽयमन्वयव्यतिरेकन्याय : एतावानेव । यदवसानो वाक्यार्थस्तदभिज्ञस्याहंब्रह्मास्मीत्याविर्भवति । द्रष्टदृश्यविभागेन्नागमापायिसाक्षिविभागेन च श्रुत्यभ्युपगमतः संक्षिप्योच्यते । दृश्यावाद्धटवद्देहो देहवचेन्द्रियाण्यपि । मनश्चेन्द्रियवज्ज्ञेयं मनोवनिश्चयादिमत् ॥ ५४ ॥
अतो वेदान्तानामात्मनि प्रामाण्यमित्येतदपि सिद्धमित्युपसंहरति यस्मादिति । देहादिप्राणपर्यन्तमनात्मजातमन्वयव्यतिरेकाभ्यामनात्मतया निरस्य कोऽस्म्यहमित्यात्मस्वरूपजिज्ञासोस्तत्स्वरूपप्रतिपादनाय तत्त्वमसिवाक्यं प्रवृत्तमित्यर्थः ॥ ५३ ॥ अवाक्यार्थज्ञानसाधनपदार्थविवेकहेतुभूतयोरन्वयव्यतिरेकयोः पूर्वाध्यायोदितयोः पुनः संक्षेपतः प्रदर्शनायोत्तरो ग्रन्थ इति तात्पर्य वक्ष्यन्प्रथमं तयोरव्यवहितं विपयं निर्दिशति सोऽयमिति । एतावानेव तावत्पर्यन्त इत्यर्थः । कियूत्पर्यन्त इत्यत आह यदवसान इति । अवसीयते निश्चीयतेऽनेनेत्यवसानो योऽयमन्वयव्यतिरेकन्यायोऽवसानो निश्धायकोऽस्य वाक्यार्थस्येति यद्वसानः । असम्भावनाविपरीतभावनानिरासेन वाक्यार्थनिश्धयस्यान्वयव्यतिरेकन्यायाधीनत्वाद्यदवसानो वाक्याथाऽन्वयव्यतिरेकाभिज्ञस्याहंत्रह्मास्मीत्याविर्भवति सोऽवाचक्यार्थनिर्णयोऽन्वयव्यतिरेकानुसन्धानपर्यन्त इत्यर्थः । यद्वा । यस्य पदार्थस्यावसानो निर्णयः पुष्कलकारणं वाक्यार्थस्येति यदवसानो वाक्यार्थस्तभिशस्य न्यायतः पदार्थाभिज्ञस्याहंब्रह्मास्मीत्याविर्भवति स पदार्थनि-