पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१३०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१२८ नैष्कम्यैसिद्धिश्रवन्द्रिकासहिता यथोक्तार्थप्रतिपतिसौकर्याय दृष्टान्तोपादानम् । प्रत्यगुन्दूतपितस्य यथा बाह्यार्थपीतता । चैतन्यं प्रत्यगात्मीयं बहिर्वदृश्यते तथा ॥ ३० ॥ यस्मादेवमतो विशुछमवसीयताम् । पदान्युदृत्य वाक्येभ्यो ह्यन्वयव्यतिरेकतः । पदार्यालोकतो बुङ्का वेति वाक्यार्थमञ्जसा ॥ ३१ ॥ कुतः पुनः सामान्यमात्रवृतेः पदस्य वाक्यार्थप्रतिपति हेतुत्वमिति । बाढम् । एवमतः स्वात्मभूतमाप तदर्थमशोधितत्वम्पदार्थो देहादिव्यवधानात्पा रोक्ष्येणैव जानाति देहाद्यनात्मप्रतिपत्तेः साक्षात्वमपरोक्षत्वं जानाती त्यर्थः ॥ २९ ॥ ननु कथं स्वात्मभूतस्य स्वात्मनि प्रकाशमाने पारोक्ष्यतया प्रतिभास इति तत्राह यथोक्तति । अहमित्यभिमन्यमानशारीरैकदेशे समुद्रतापि तस्य पुंसस्तद्वतपीतता यथा पीतः शङ्ग इति बाह्यार्थोपरक्ततया बहि रिव भासत एवं प्रत्यगात्मनोऽपि तद्र्थस्य बाह्याव्याकृताद्युपररागाद्वाह पृष्ठवदवभासत इत्यर्थः ॥ ३० ॥ यत उक्तन्यायेन तत्त्वमस्यादिवाक्यस्याखण्डार्थपर्यवसानमविरुद्ध त स्माद्वाक्यान्निःशङ्क यथोक्तार्थो निश्चीयतामित्युपसंहरति यस्मादिति । पदानां वाक्येभ्यः समुद्वारा नाम प्रयोगभेदेषु पदानामावापोद्वापाभ्यां तत्तत्पदार्थेषु शक्तयवधारणं तत्कृत्वा पदार्थाश्चान्वयव्यतिरेकाभ्यां लो कतो वृद्धव्यवहारतश्च पद्शक्तिप्रतियोगिनो बुध्वा वाक्यतात्पर्यानुसा रेण वाक्यार्थ प्रतिपद्यत इत्यर्थः ॥ ३१ ॥ ननु सामान्यमात्रे गृहीतसम्बन्धस्य पदस्य वाक्यार्थबोधकत्वं नोपप द्यते वाक्यार्थविशेषत्वात् । न ह्यन्यत्रगृहीतसम्वन्धस्य पदस्यान्यत्रबुद्धि जनकत्वं सम्भवतीत्याक्षिपति कुतः पुनरिति । पदस्य सामान्यवाचकत्वे ऽपि विशेषस्य वाक्यतात्पर्यविषयत्वं न विरुध्यत इति समाधत्ते बाढ