पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२९
तृतीयोऽध्यायः ।

 सामान्यं हि पदं बूते विशेषो वाक्यकर्तृकः ।
 श्रयादि प्रतिबद्धं सद्विशेषार्थ भवेत्पदम् ॥ ३२ ॥
अन्वयव्यतिरेकपुरःसरं वाक्यमेव सामानाधिकरण्यादिनाऽविद्यापटलमध्वंसद्वारेण मुमुक्षु स्वाराज्येऽभिषेचवयति न त्वन्वयव्यतिरेकमात्रसाध्योऽयमर्थ इत्याह ।
 बद्धयादीनामनात्मावं लिङ्गादपि च सिध्यति ।
 निवृतिस्तावता नेतीत्यतो वाक्यं समाश्रयेत् ॥ ३३ ॥
न केवलमनुमानमात्रशरणोऽभिलषितमथै न प्राशेोतीमिति ।


विशेषो वाक्यकर्तृको वाक्यतात्पर्यविषय इत्यर्थः । ननु कथं न

विरुध्यते पदसमुदायात्मकं हि वाक्यं पदानि च सामान्यमात्रविषयाणि ततस्तत्समुदायात्मकं वाक्यमपि सामान्यमात्रविषयं स्यान्न विशेषार्थविषयमित्यत आाह श्रुत्यादीति । यद्यपि स्वतः सामान्यमात्रविषयं पदं तथापि श्रुतिलिङ्गवाक्यादिभिर्नियन्त्रितं सदन्विताभिधानसमयेऽन्वये विशिष्टार्थे तात्पर्यतो वक्र्तते यथा सर्वान्ब्राह्मणान्भोजयेदित्युक्त सर्वशब्दो निमन्त्रितब्राह्मणविषयो भवति । अन्यथा विशिष्टव्यवहारासि-द्धेरित्यर्थः ।॥ ३२ ॥

 चतुविधान्वयव्यतिरेकाभ्यां शोधितपदार्थस्याखण्डार्थप्रतीतिसिद्धेववक्यमनर्थवकमित्याशङ्कय प्रमाणमन्तरेण युक्तिमात्रादज्ञानस्यानिवृत्तेस्तत्रिवृत्तये वाक्यमेव समाश्रयणीयमित्युक्तमर्थ निगमयति अन्वयव्यतिरेकेति । बुद्धयादीनामिति । बुद्धयादीनामनात्मत्वं युक्तितः सिध्यति न तु तेषां वकारणाज्ञाननिवृत्तिद्वारेण निवृत्तिस्तावता सिध्यति तस्या अप्रमाणत्वेनाज्ञाननिवर्तकत्वायोगात् । तस्मात्तन्निवृत्तये प्रमाणभूतं वावयमेव समाश्रयणीयमित्यर्थ । ३३ इतश्च वावयमेव समाश्रयणीयमशाननिवृत्तय इत्याह न केवल-