पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१२९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तृतीयोऽध्यायः । १२७ र्थमात्मत्वेनाभिलिङ्गते न विपर्यय इति । उच्यते । प्रत्यगामानवबोधस्यानामस्वाभाव्यात्तदभिनिवृतश्चायं बुद्धयादिदेहान्तस्तस्मिन्नात्मत्वमविद्याकृतमेवात्मत्वमिवा नामावमपि साविद्यस्यैव । यतो निरविद्यो विज्ञानवा क्यार्थरूप एव केवलोऽवशिष्यते तस्मादुच्यते । देहादिव्यवधानत्वातदर्थ स्वयमप्यतः । पारोक्ष्येणैव जानाति साक्षात्वं तदनात्मनः ॥ २९ ॥ दृश्यते न तु रजवादेरर्थान्तरात्मना प्रतिपत्तिस्तत्कथमिह देहादेरात्म भावनिवृत्तौ तदधिष्ठानस्य त्वमर्थस्य तदर्थताप्रतिपत्तिः । प्रतिपत्तौ वा ब्रह्मकार्यतया देहादेर्बह्मात्मत्वाद्देहाद्यात्मत्वप्रतिपत्तावेव ब्रह्मत्वप्रति पत्तिः किं न स्यादित्याक्षिपति कस्मादिति । समाधत्त उच्यत इत्या दिना । आत्माविद्यायास्तावज्जडस्वभावत्वादृश्यत्वाज्ज्ञाननिवत्र्यत्वाञ्चा नात्मत्वं स्वाभाविकं । तत्कार्यत्वाञ्च देहादेरप्यनात्मत्वं केवलकूटस्थब्रह्म कार्यत्वानुपपत्तेस्तथात्मनश्चिन्दूपत्वात्कूटस्थत्वात्स्वयंप्रकाशत्वाञ्च ब्रह्मत्वं स्वाभाविकं । तेन तस्य देहादावात्मत्वप्रतीतेरेव ब्रह्मभावप्रच्युतिस्तन्नि वृत्तौ तु स्वाभाविकब्रह्मरूपतामेवासौ प्रतिपद्यत इत्यर्थः । तथाप्यना त्मनां स्वरूपेणावस्थितत्वान्नात्यन्तिकानर्थनिवृत्तिः स्यात् “द्वितीयाद्वै भयं भवती'ति श्रुतेरित्याशङ्कयाह आत्मत्वमिवेति । देहादीनामात्मभाव वदनात्मस्वरूपमप्यविद्यावत एव भवति रजतादिवत्तेषां स्वरूपेण सं स्पृष्टरूपेण चात्मन्यध्यस्तत्वात् । तस्माद्वाक्यार्थप्रतिपत्तेरविद्यानिवृत्तौ सर्वानर्थनिवृत्तिरित्यर्थः । उभयमप्यविद्याकृतमिति कथमवगम्यत इत्या शङ्कय विद्योदये पूर्णमेवावशिष्यत इत्युक्तत्वादित्याह यतो निरविद्य इति । उत्तेऽर्थे श्लोकमवतारयति तस्मादिति । यस्माद्देहादिलक्षणव्यवः धानात्स्वयं स्वात्मभूतमपि तत्पदार्थ ब्रह्मपारोक्ष्येणैव जानाति व्यवहिः तमनात्मभूतामिव प्रतिपद्यतेऽतस्तेषामन्वयव्यतिरेकाभ्यामनात्मत्वावग मात्साक्षात्वमपरोक्षात्मरूपत्वं तत्पदार्थस्य भवतीत्यर्थः । अथवा यत