अस्मिन् सूत्र उपन्यस्ते कश्चिञ्चोदयति योऽयं वाक्यार्थप्रतिपत्तौ पूर्वाध्यायेनान्वयव्यतिरेकलक्षणो न्यायः सर्वकर्मसन्यासपूर्वकोऽभिहितः किमयं विधिपरिप्रापितः
किंवा स्वरसात एवात्र पुमान्प्रवर्तत इति । किञ्चातः शृणु ।
यद्यात्मवस्तुसाक्षात्करणाय विधिपरिप्रापितोऽयं न्यायस्तदावश्यमात्मवस्तुसाक्षात्करणाय व्यावृतशुभाशुभकर्मराशिरेकाग्रमना अन्वयव्यतिरेकाभ्यां ययोक्ताभ्यामामदर्शनं करोति । अपरिसमाप्यात्मदर्शनं ततः प्रच्यव-
स्थानीय उपन्यस्त इत्याह एवमिति । सामानाधिकरण्यं चेति । तत्त्वमस्यादिमहावाक्यस्थपद्धर्मः सामानाधिकरण्यं प्रथमं भवति । सति च तस्मिन्त्सामानाधिकरण्ये वाच्यपदार्थयोः परस्पराविशेषणविशेष्यभावेनान्वयः स्यात् । सति च तस्मिन्विरोधस्फूत वाच्यपदार्थयोर्वाक्यतात्पर्यविषयस्य च प्रत्यगात्मनो लक्ष्यलक्षणसम्बन्धः । एवं च यथाक्रःमेण पदतदर्थप्रत्यगात्मनां सामानाधिकरण्यं विशेषणविशेष्यता लक्ष्यलक्षणसम्बन्धश्च भवतीत्यर्थः ॥ ३ ॥
नन्वज्ञाननिवृत्तेर्दष्टफलत्वात्तत्साधनशानस्याविधेयत्वाज्ज्ञानं प्रति च श्रवणादेरन्वयव्यतिरेकसिद्धसाधनत्वाज्ज्ञानार्थितामात्रेण यस्यकस्यचिद्विधिं विनापि श्रवणादौ प्रवृत्त्युपपत्तेः शास्त्रीयस्य विशिष्टाधिकारिणो भावादधिकारिणः प्रमितिजनको वेद् इति न्यायाञ्च तत्त्वमस्यादिवाक्यस्य न प्रमितिजनकत्वमतस्तद्वयाख्यानाय यः सूत्रोपन्यासो व्यर्थ इत्याशयवान्कश्चित्प्रत्यवतिष्ठत इत्याह आस्मिन्नित्यादिना । वाक्यार्थज्ञानसाधनविषयायाः प्रवृत्तेर्विधिप्रयुक्तत्वे दोषमाह यद्यात्मवस्त्विति । यावदसम्भावनाविपरीतभावनाराहितफलपर्यन्तज्ञानोत्पत्तिस्तावदधिकारिणा मुमुक्षुणा शानसाधनान्यवश्यानुष्ठेयानीत्यर्थः । नन्वनुष्ठानमात्रमेवालं किमिति फलपर्यन्तमनुष्ठानमित्यत आह अपरिसमाप्येति । विध्यतिलङ्कनात्प्रत्यवायी स्यादित्यर्थः । रागप्रयुक्तत्वे कश्चिद्पि दोषो