पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१११
तृतीयोऽध्यायः ।

यदैव तदर्थं त्वमर्थेऽवैति तदैवावाक्यार्थतां प्रतिपद्यते
गीर्मनसोः सृतिं न प्रतिपद्यत इति कुत एतदध्यवसी
 तत्पदं प्रकृतार्थ स्यात्वम्पदं प्रत्यगात्मनि ।
 नीलोत्पलवदेताभ्यां दुःख्यनात्माववारणे ॥ २ ॥
एवं कृतान्वयव्यतिरेको वाक्यादेवावाक्याथै प्रतिपद्यत।
इत्युक्तमतस्तव्याख्यानाय सूत्रापन्यासः ।
 सामानाधिकरण्यं च विशेषणविशेष्यता ।


 उक्तमर्थ कीर्तयंस्तद्धेतुत्वेनोत्तरश्लोकमवतारयति यदैवेति । यस्मिन्नेव क्षणे तदर्थ तत्पदस्यार्थमद्धितीयानन्दं ब्रह्मत्वमर्थे त्वंपदस्यार्थे बुद्धयादिसाक्षिणि परिशोधितेऽवैति जानाति तत्त्वंपदयोरैक्यं प्रतिपद्यते तदैव तस्मिन्नेव क्षणे देशकालसाधनान्तरनिरपेक्षामवाक्यार्थतां भेदसंसर्गवाक्यार्थविलक्षणामखण्डैकरसतां प्रतिपद्य सर्वव्यवहारातीतो भवतीत्यत्र को हेतुरित्यर्थः । तत्त्वमसिवाक्ये तत्पदं विधित्सितप्रकृताद्वितीयब्रह्मपरं त्वम्पदं चोद्दिश्यमाने प्रत्यगात्मनि वक्र्तते ततश्चैताभ्यां द्वाभ्यामन्योन्यनियम्यनियामकतयाचास्थिताभ्यां विधित्सितब्रह्मभावादेव प्रत्यगात्मनि दुःखित्वमनात्मनो बाधितत्वाच्च ब्रह्मणोऽनात्मत्वं च व्यावर्तते । यथा नीलमुत्पलमित्युक्तरुत्पलस्यानीलत्वं नीलस्यानुत्पलत्वं च व्यावर्त्तते न तत्र देशकालसाधनान्तराद्यपेक्षा तद्वदिहापीत्याह तत्पदमिति ॥ २ ॥

 लोके गामानय दण्डेनेति भिन्नविभक्तिनिर्दिष्टानामन्वयलक्षणो भेदो वाक्यार्थो नीलमुत्पलमित्यभिन्नविभक्तिनिर्दिष्टानां संसर्गात्मकश्चेति वाक्यार्थो द्विविध एव दृश्यते न तु तदतिरिक्ताखण्डेकरसतालक्षणो वर्तते । तत्कथं तदभिप्रायेणावाक्यार्थतां प्रतिपद्यत इत्युच्यत इत्याशङ्कय तत्प्रतिपादयितुं प्रतिपत्तिसौकर्याय प्रथमं तावदुत्तरश्लोकः स्सूत्र-