पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः ।

 सर्वोऽयं प्रमितिप्रमाणप्रमेयप्रमातृलक्षण आब्रह्मस्त म्बपर्यन्तो मिथ्याध्यास एवेति बहुश उपपतिभिरतिष्ठि पमम् । आत्मा च जन्मादिषड़ावविकारवर्जितः कूटस्य बोध एवेति स्फुटीकृतम् । तयोश्य मिथ्याध्यासकूटस्यात्म नोननतरेणाज्ञानं सम्बन्धोऽन्यत्रचोदनापरिप्रापितात् । यये*यमेवर्गग्निः सामे'ति । तच्चाज्ञानं स्वात्ममात्रनि मितं न सम्भवतीति कस्यचित्कमिश्रिद्विषये भवतीत्य


 श्रीगणपतिसरस्वतिसदुरुभ्यो नमो नमः । हरिः । ॐ । वतिष्यमा णस्याध्यायस्यातीताध्यायेन संगतिं दर्शयितुं वृत्तं कीर्तयति सर्वोऽय मिति । पदार्थपरिशोधनाय विचारानान्तरीयकतया सर्वस्य प्रपञ्चस्य मिथ्यात्वं दशितमित्यर्थः । इदानीं साक्षात्प्रतिपादितमथन्तरं दर्शयति वर्त्तितष्यमाणविचारोपयोगित्वात् आत्मा चेति । तर्हि पदार्थशोधनस्य स म्यङ्गिष्पादितत्वाद्विदितपदपदार्थस्य च स्वयमेव वाक्यार्थज्ञानोत्पत्ते किमर्थस्तृतीयाध्यायारम्भ इत्यत अाह तयोश्चेति । अध्यस्यमानाधिष्ठा नयोः शुक्तिरूप्ययोरिवाधिष्ठानविषयाज्ञानव्यतिरेकेण सम्बन्धासम्भवा दशानं तावदहमिदं ममेदमिति प्रतीयमानात्मानात्मसम्बन्धघटकमभ्युपे यम् । तस्य चाज्ञानस्य निवृत्तिव्यतिरेकेण पुरुषार्थापरिसमाप्तस्तन्निवृ तेश्च वक्ष्यमाणन्यायेन वाक्याधीनत्वाद्वाक्यव्याख्यानायारम्भो घटत इति भावः । अधिष्ठानाध्यस्यमानयोरझानव्यतिरेरकेणापि सम्बन्धो दृश्यत इत्याशङ्कयाह अन्यत्रेति । निवत्र्याज्ञानस्य निवर्तकशानेन समानाश्रयवि षयत्वनियमस्येदं रजतमियं शुक्तिरित्यांदौ दर्शनादिहापि ब्रह्मझानेना त्माज्ञानस्य समानाश्रयविषयत्वं दर्शनीयमिति तत्साधनायोपक्रमते त चाशानमिति । अज्ञानं स्वसत्ताप्रतीत्योः स्वयमेव प्रयोजकं न भवति १४