पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


 इत्योमित्यवबुद्धात्मा निष्फलोऽकारकोऽक्रियः ।
 विरक्त इव बुद्धयादेरेकाकित्वमुपेयिवान् ॥ १९ ॥
इति श्रीनैष्कम्यैसिर्छौ सम्बन्धाख्यायां द्वितीयोऽध्यायः ।।


सर्वमात्मैवाभूत्तत्केन कं पश्येदि'ति समस्तसंसारनिषेधिनीं श्रुतिं किमहं नाशासिषमिति स्वात्मानं विनिन्दतीत्यर्थः ॥ ११८ ॥

 इदानीं विद्यापफलं दर्शयन्नध्यायमुपसंहरति इत्योमिति । निष्कलो ऽकारकोऽक्रिय इति श्रुत्याचार्योक्तमर्थमनुभवन्नभ्यसितुर्शनमभिनयति इत्योमिति। अर्थादवकारस्यैव ब्रह्मप्रतिपत्तिसाधनत्वमिति दशितं भवति । विरक्त इवेति । यथा हि कश्चिाद्विरक्तः पुत्रमित्रकलत्रादिलक्षणात्संसारदुःखादुत्थाय स्वयमेकाकी वर्त्तते तद्वद्यमप्यात्मा सकलसंसारहेतुभूताडुद्धत्यादेरुत्थाय स्वयमेकल एव स्वमहिन्नि तिष्ठतीत्यर्थः ॥ १९ ॥

 इति श्रीज्ञानोत्तममिश्रविरचितायां नैष्कम्र्यसिद्धिचन्द्रिकायां द्वितीयोऽध्यायः समाप्तः ॥ २ ॥