पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१०५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


द्वितीयोऽध्यायः ।। १०३ अहम्मिथ्याभिशापेन दुःख्यात्मा तडुभुत्सया । इतः श्रुतिं तया नेतीयुक्तो कैवल्यमास्थितः ॥११६॥ तस्यास्य मुमुक्षोः श्रौतावचसः स्वशनिमितोत्सारितनि निश्चितायां प्रमा जायते । नाहं न च ममात्मविासवदानामिवाजतः । भानाविव तमोध्यासोऽपहवश्च तथा मयि ॥१७॥ सोऽयमेवं प्रतिपन्नस्वभावमात्मानं प्रतिपन्नोऽनुक्रोशति । यत्र त्वस्येति साटोपं कृत्स्न्नद्वैतनिषेधिनीम् । ोत्सारयनीं संसारमयश्रौषं न किं श्रुतिम् ॥ ११ ॥ द्यमानाहङ्कारात्मनाभिशापेनापवादेन दुःखी सन्नात्मा तडोधनेच्छया मातृवकल्पां श्रुतिमितः प्राप्तस्तया चव “नेतिनेत्यात्मा ऽगृह्यो न हि गृह्यत’ इत्यादिलक्षणया निराकृतापवादोऽध्यस्ताहंकारादिकं विहाय स्वस्थः कै वल्यमास्थित इत्यर्थः ॥ ११६ ॥ तर्हि श्रुत्याचार्यादिप्रपञ्चस्य वास्तवत्वमभ्युपेयम् । मिथ्यात्वे बाष्पधू मादिवत्प्रमाज्जनकत्वानुपपत्तिरित्याशङ्कयासत्यादपि प्रमोत्पत्ति सदृष्टा न्तमाह तस्यास्येति । नाहं न चेति । भानौ तमोध्यास इवाहङ्काराद्यः प्रत्यगात्मन्यध्यस्ता एव न तु परमार्थतः सन्ति तस्य चैतन्यमात्रस्वरूप त्वाच्ततस्तन्निवृत्तौ निविशेष आत्मेति मुमुक्षोः प्रमा जायत इत्यर्थः । ननु वकथयै निर्विशेष आत्मेति प्रमा जायते निवृत्तिलक्षणस्य विशेषस्य विद्य मानत्वादित्यत आह अपह्नवश्चेति । अहंकारादिर्यथात्मन्यध्यस्तस्तथा त दपह्नवोऽपि तस्मिन्नध्यस्त एव कालत्रयेऽपि तस्मिन्नहंकारादेरसत्वादेव परमार्थतो निवृत्त्यनुपपत्तेरित्यर्थः ॥ ११७ ॥ एवं श्रुतिस्मृतिवचनाकर्णनमात्रान्निरस्तेऽपि संसारे वैषयिकसुखल वाििवप्रलब्धचेतस्तया एतावन्तं कालं प्रमत्तोऽहमासमहो कष्टमिति वि दुषोऽनुक्रोशं दर्शयति मुमुक्षुणां प्ररोचनाय सोऽयमिति । “यत्र त्वस्य