पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

भ्युपगन्तव्यम् । इह च पदार्यद्वयं निद्वरितमात्मानात्मा च । तत्रानात्मनस्तावनाज्ञानेनाभिसम्बन्धः । तस्य हि। स्वरूपमेवाज्ञानं न हि स्वतोऽज्ञानस्याज्ञानं घटते । सम्भवदप्यज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् । न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकमज्ञानं स्यात्। अनात्मनश्चाज्ञानप्रसूतत्वात् । न हि पूर्वसिद्धं सत्ततो


नित्यपरतन्त्रत्वात्तस्मात्तस्याश्रयाविषयौ निरूप्यमाणौ इज्ञानेन समानाश्रयविषयत्वे एव भविष्यत इति भावः । तावता कथमेकाश्रयाविषयत्वमित्यत आह इह चेति । इह वेदान्तशास्त्र इत्यर्थः । अस्त्वेवं तथापि कथं सम्यग्ज्ञानेनैकाश्रयविषयत्वमित्याशङ्कय परिशेषादित्याह तत्रानात्मन इति । अभिसम्बन्ध आश्रयाश्रयित्वलक्षणो नास्तीत्यर्थः । तत्र हेतुः तस्य हीति । अज्ञानस्वरूपत्वेऽप्यशानाश्रयत्वमस्तु को विरोध इत्यत आह न हीति । अज्ञानात्मकमज्ञानाश्रयो न भवति । अज्ञानान्तरवच्छुक्तिरूप्यादिवञ्चेति भावः । अज्ञानाश्रयत्वप्रयुक्तसंशयविपर्यासाश्रयत्वादर्शनादप्यनात्मनो घटादिवन्नाज्ञानाश्रयत्वमित्याह सम्भवद्पीति । अनात्मनो जडस्वभावत्वात्संशयविपर्यासाद्यतिशयानाश्रयत्वमित्यर्थः । अज्ञानसस्यग्ज्ञानयोरेकाधिकरणत्वनियमात्सम्यग्ज्ञानानधिकरणस्यानात्मनो नाज्ञाःनाधिकरणत्वसम्भव इत्याह न च तत्रेति । अज्ञानकार्यत्वादप्यनात्मनो न तदाश्रयत्वमित्याह अनात्मनश्धेति । अज्ञानस्य स्वभावपर्यालोचनायामपि न तस्याहङ्काराद्यनात्माश्रयत्वं युक्तामित्याह न हीति । कारणतया पूर्वसिद्धमज्ञानं तत एवाज्ञानालुब्धात्मकस्याहङ्कारादेस्तदेवाज्ञानमाश्रित्य सेत्स्यतः स्वाश्रयत्वेनाभिमतस्याश्रयि न भवति तेनाश्रयेणाश्रयि न भवितुमर्हति कायद्यात्प्रागेव तस्याश्रयतयैव सिद्धत्वादित्यर्थः । यद्धा । पूर्वोक्तमेव प्रपञ्चयति न हीति । कारणतया पूर्वसिद्धस्याज्ञानस्य तत्र लब्धात्मलाभत्वाद्नात्माख्यस्य कारणस्य कार्याश्रयत्वमनुपपन्नामिति । किंचाधेयाकारनिरपेक्षाकारान्तरेणाधारस्याधारता दृष्टा न चेहाशानान-