ग्राहकादिनिधैव ग्राहकादिभावाभावविभागसिद्धिः कस्मान्नेति चेतदाह ।
अत एव न चान्येषामतोऽसौ भिन्नसाक्षिकः ॥ १०९ ॥
ग्राहकादेरन्यसाक्षिपूर्वकावसिद्धेः स्वसाक्षिणोऽप्यन्यसाक्षिपूर्वकाचादनवस्येति चेतन्त्र साक्षिणो व्यतिरिक्तहेत्व
धीवन्नापेक्षते सिद्धिमात्मान्यस्मादविक्रियः ।
निरपेक्ष्मपेक्ष्यैव सिद्धयन्यन्ये न तु स्वयम् ॥ १० ॥
यतो ग्राहकादिष्वामभावोऽविद्यानिबन्धन एव तस्मादन्वयव्यतिरेकाभ्यां विभज्यानात्मनः स्वयम्
।
ननु ग्राहकादिविभागसिद्धिहेतुत्वेन साक्षिणः सिद्धिरुच्यते ग्राहकादिविभागोऽपि ग्राहकादिभिरेव सिध्येत्ततः किं साक्षिणेत्याशङ्कते ग्राहकादीति । निरस्यति तदाहेति । ग्राहकादीनामन्यतमो नष्टः पंदार्थः स्वनाशं स्वसाधनं च यथा भवति तथा स्वयं न वेति स्वस्याभावादेवात एवान्येषामपि ग्रहणादीनां नाशं न वेति । नाशश्च प्रतीयते तस्माङ्गाहकादिव्यतिरिक्तात्मसाक्षिक एवासावित्यर्थः ॥ १०९ ॥
ननु स्वग्राहकस्यापि ग्राह्यत्वे साक्षिणोऽपि ग्राह्यत्वं ततश्चानवस्थेत्याशङ्कय तस्याजडत्वेन स्वतःसिद्धावन्यानपेक्षत्वान्मैवमिति परिहरति ग्राहकादेरित्यादिना । धीवन्नापेक्षत इति। बुद्धयादिर्यथा जडत्वात्स्वसिद्धिमन्यस्मादपेक्षते नैवमात्मा स्वप्रकाशः स्वसिद्धिमन्यस्मादपेक्षत इत्यर्थः । अन्येषां सर्वेषामात्मग्राह्यत्वेनात्मग्राहकत्वायोगाञ्च नान्यग्राह्यत्वमात्मन इत्याह निरपेक्षमिति ॥ ११० ॥
इदानीं पूर्वप्रसाधितस्येतरेतराध्यासस्य फलमुपसंहरति यत इति । उत्पत्तीति । जगत उत्पत्तिस्थितिनाशेषु य ईश्वरोऽविकारयाऽवगत्या-