पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१०१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


द्वितीयोऽध्यायः । द्रष्ट्रादेरसाधारणरूपज्ञापनायाह । बाह्य आाकारवान् ग्राह्यो ग्रहणं निश्रयादिमत् । अन्वयहमिति ज्ञेयः साक्षी त्वामा धुवः सदा ॥१०७॥ सर्वकारकक्रियाफलविभागात्मकसंसारशून्य आामेति कारकक्रियाफलविभागासाक्षित्वादात्मनस्तदाह । ग्राहकग्रहणग्राह्यविभागे योऽविभागवान् । हानोपादानयोः साक्षी हानोपादानवर्जितः ॥१०॥ द्रष्ट्रादिव्यतिरिक्त आत्मा नास्माकं प्रसिद्ध इति परमतमाशङ्कय ल क्षणं तस्योपपादनायाह द्रष्ट्रादेरिति । बाह्यः पराग्भूत आाकारवान्पृथुबु भ्रोदरत्वादिधर्मवान्ग्राह्यः । तदुक्तं वात्तिकेऽपि । “विभिन्नो बहिरा भाति जातिरूपक्रियादिमान् । विभिन्नोऽनुभवादेव ज्ञातुशनात्स गो चर” इति। एकस्मिन्नेव ज्ञातरि निश्चयस्मृत्यादिविभागवत्वेन ज्ञातृकर्तृकं यदाभाति तङ्गद्वहणम् । तदुक्तम् । “स्मरणादिविभागेन ज्ञातर्येकत्र यत्पृ थक् । प्रथतेऽनेकरूपाभं तद्भानं ज्ञातृकर्तृकमिति'। अहं श्रृणोम्यहं नि श्चिनोम्यहं स्मरामीति च निश्चयादिषु व्यभिचारिषु योऽहंरूपेणान्वेति प्रत्यभिज्ञया एकत्वेनानुसन्धीयते स द्रष्टा । तदुक्तम् । “स्मृतिनिश्धिति संशीतिरागादिहिरुगात्मसु । अहंरूपेण योऽन्वेति स प्रमाता परो मत' इति । साक्षी यः पुनरेषां त्रयाणां भावाभावसाधकः सुषुप्तिकैवल्या दिष्वन्वयी कूटस्थनित्यः स परैरपि बलादभ्युपेयोऽन्यथा द्रष्ट्रादेरसिद्धे रितिभावः ॥ १०७ ॥ साक्षित्वेनासंसारित्वमप्यात्मनः प्रसाधितमित्याह सर्वकारकक्रि येति । सर्वकारकक्रियाफलविभागात्मकसंसारशून्य आत्मेतिगम्यत इ तिशेषः । यद्वा । इतिशब्दो हेत्वर्थः कारकक्रियाफलविभागसाक्षित्वादि त्युत्तरेण सम्बध्यते । ग्राहकेति। ग्राहकादीनां त्रयाणां विभागेषु त्रिष्वपि स्फुरणरूपेणाविभागवान्यस्तेषां हानोपादानयोर्भावाभावयोः साक्षी स तत्साक्षित्वादेव स्वयं हानोपादानलक्षणसंसारवर्जित एव भवती त्यर्थः ॥ १०८