उत्पतिस्थितिनाशेषु योऽवगयैव वर्तते ।
जगतोऽविकारयावेहि तमस्मीति न नश्वरम् ॥ १११ ॥
स्वत:सिङ्गात्मचैतन्यप्रतिबिम्बिताविचारितसिद्धिकामानवबोधोत्येतरेतरस्वभावापेक्षसिद्धावात्स्वतश्यासिद्धेरनात्मनो द्वैतेन्द्रजालस्य ।
नोभाभ्यामप्यतः सिड़मद्वैतं द्वैतबाधया ॥ १२ ॥
यथोक्तार्थप्रतिपतिद्रढिने श्रुयुदाहरणोपन्यासः ।
नित्यावगतिरूपावात्कारकादिर्न चात्मनः ।
अस्यूलं नेतिनेतीति न जायत इति श्रुतिः ॥ ११३ ।।
ऽवगतिरूपेण वर्तते तमहमस्मीत्यवेहि विजानीहि न तु नश्वरं प्रमाघादिरूपमित्यर्थः । भुरिगनुष्टुबियं जगतोऽविकारयाऽवेहीत्यक्षराधिक्यात् । तथा च पिङ्गलाचार्यः सर्वच्छन्दोविषयमाह । “न्यूनाधिकेनैकेन निवृद्भरिजाविति” । तचैतलोकवेदसाधारणमिति भरताचार्यःप्राह ॥ १११ ॥
तमस्मीत्यवेहि न नश्वरमित्युक्तत्वादात्मव्यतिरिक्तमपि वस्त्वङ्गीकृतमित्याशङ्कय तस्य स्वतः परतश्चासिद्धेः प्रत्यगात्माश्रयानिर्वाच्यानाद्यवि द्याविजूम्भितत्वात्रैवमित्याह स्वतःसिद्धेति । चैतन्यप्रतिबिम्बितं स्फुरितमितरेतरस्वभावापेक्षसिद्धत्वादिति । प्रतियोगिनो भेदेन सिद्धौ धर्मिणस्ततो भेदेन सिद्धिस्तत्सिद्धौ च प्रतियोगिनो भेदसिद्धिरितिपरस्पराश्रयत्वादित्यर्थः । न स्वयमिति । स्वस्य द्वैतेन्द्रजालस्य स्वयमेव स्वेनैव नानात्वं न सिद्धं जडत्वात् । नाप्यवगतिरूपेण जडाजडयोरैक्यायोगात् । नोभाभ्यामपि संयोगसमवायादिसम्बन्धासम्भवात् । अतो दुनिरूपसिद्धिकत्वाद्वैतेन्द्रजालस्याद्वैतमेव परमार्थत इत्यर्थः ॥ १२ ॥
आत्मनः कर्तृत्वाद्यभावे श्रुतिवाक्यमुदाहरतीत्याह यथोक्तति ॥ ११३॥