पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

विवक्षितप्रकरणार्थप्ररोचनायानुक्तदुरुक्ताप्रामाण्यकाणशङ्काव्युदासेन स्वगुरोः प्रामाण्योपवर्णनम् ।
 गुरूतो वेदराद्धान्तस्तत्र नो वच्म्यशक्तितः ।
 सहस्रकिरणव्या खद्योतः किं प्रकाशयेत् ॥ ५ ॥



ग्यत्वे सति न किञ्चन प्रमात्रादि जडं सिध्यतीतिशेषः । यद्वा । न किंचन न कस्यचनेत्यर्थः । तदेवमनिर्णीतप्रमाणाप्रमाणवकरणीयलोकप्रसिद्धेश्धिदात्मनि भावाब्रह्मणः सामान्यतः सिद्धिरुतेति मन्तव्यम् । ननु ब्रह्मणो निःसामान्यविशेषत्वादविशेषत्वमुक्तामित्याशङ्कय तथापि तस्य सचिदात्मादिसाधारणाकारेण सिद्धावपि सर्वप्रपञ्चविभ्रमाधिष्टाननित्यशुद्धबुद्वमुक्ताद्वितीयानन्दलक्षणासाधारणाकारेणासिद्धेः संभवति प्रकरणविषयत्वमित्याह प्रत्यग्धर्मेति । आत्मानात्मविवेकाद्देहादिष्वात्मतया बाहिभवमापद्यमानेषु प्रातिलोम्येनान्तरमञ्चतीवेतिप्रत्यक्साक्षी स चासौ धर्मश्चेति प्रत्यगधर्मः । अ विद्यातत्कार्ययोः स्वात्मन्यध्यस्तयोरधिष्टानत्वेन धारणाद्धर्मः प्रत्यग्धर्म एवैकस्मिन्निष्टापर्यवसानमस्येति प्रत्यग्धर्मेकनिष्ठस्तस्य । आत्मानमनतिक्रम्य वर्तत इति यथात्मं तस्य भावो याथात्म्यम् । आरोपितप्रपञ्चस्वभावाविरोधि ब्रह्मतत्त्वं तदितस्ततो विस्तरेण शारीरके दशितमित्यस्पष्टम् । इह तु संक्षिप्यैकत्र विस्पष्टमुच्यत इत्याह वक्ष्यते स्फुटमिति ॥ ४ ॥

 स्फुटं वक्ष्यत इत्युक्तत्वाद्भरुणा सम्यग्वेदार्थो नोक्त एवेतिगुरोरप्रामाण्यमज्ञानलक्षणं विपर्ययलक्षणं च प्राप्तं तद्वारा स्वस्यापि तत्प्राप्तमतस्तन्निरासायोत्तरश्लोक इत्याह विवक्षितेति । चतुमिष्ट प्रकरणस्यार्थे शिष्याणां रुच्युत्पादनायानुक्तदुरुक्तयोरप्रामाण्यज्ञप्तिहेतुभूतयोव्र्युदासेन स्वगुरोः प्रामाण्योपवर्णनं क्रियत इत्यर्थः । गुरूक्त इति । गुरूक्त इत्युक्तत्वादेवानुक्तिलक्षणमप्रामाण्यं नास्ति वेद्राद्धान्तयैवोक्तत्वादुरुक्तलक्षणमप्रामाण्यं च नास्तीति दर्शितम् । तत्किमप्यधिकं त्वयोच्यत इति नेलयाह तत्र नो वच्मीति । तत्र वेदान्तराद्धान्ते न वच्यधिकमिति