पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमोऽध्यायः ।

गुरुणैव वेदार्थस्य परिसमापितवात्प्रकरणोक्तौ ख्यात्याद्यप्रामाण्यकारणाशङ्केति चेतङ्दासार्थमुपन्यासः ।
 न ख्यातिलाभपूजाथै ग्रन्थोऽस्माभिरुदीर्यते ।
 स्वबोधपरिशुद्धयथै ब्रह्मविनिकषाश्मसु ॥ ६ ॥
अनर्थानर्थहेतुपुरुषार्थतछेतुप्रकरणार्यसङ्गहज्ञापनायोपप्रथमोऽध्यायः ।
न्यासः ।
 ऐकात्स्याप्रतिपतिय स्वात्मानभवसंश्रया ।
 साविद्या संस्कृतेबीजं तन्नाशो मुक्तिरात्मनः ॥ ७ ॥


शेषः। तत्र हेतुः अशक्तित इति। तत्र दृष्टान्तमाह सहस्रकिरणेति। यद्वा तत्रानुक्तं दुरुत्तं वा न वच्मीत्यर्थः ॥ ५ ॥

 गुरुणैवेति । भाष्यकारैरेव कात्स्न्येन वेदार्थस्य सम्यगुक्तत्वात्किमर्थ प्रकरणमारभ्यते त्वया तस्मात्प्रकरणारम्भादुपरातिरेव श्रेयसी । अनुपरमे वा ख्यातिलाभपूजानामन्यतमार्थ ग्रन्थकरणमिति प्रसज्येत ततश्चाप्रामाण्यशङ्का स्यात्ख्यात्यादेरप्रामाण्यकारणत्वात् । अग्रहणान्यथाग्रहणपूर्वकत्वात्ख्यात्याद्यथित्वस्येति तन्निरासायोत्तरश्लोकारम्भ इत्यर्थः । ननु यदि ख्यात्याद्यर्थ ग्रन्थोदीरणं न भवति तर्हि गुरुणैव वेद्राद्धान्तस्योपदेशासहस्रिकादिप्रकरणेषु सम्यगुक्तत्वात्प्रकरणोक्तिस्तवानर्थिकेल्यत आह स्वबोधेति । निकषन्ति निष्कर्षन्ति येषु हेम परीक्षितुं ते निकषाश्मानः । इह तु ब्रह्मविद् एव निकषाश्मानस्तेषु स्वबोधस्य परिशोधनार्थमेतत्प्रकरणमनुक्तौ स्वबोधस्य परैः परीक्षितुमशक्यत्वादित्येव वतुः प्रयोजनमिदं दर्शितम् । श्रोतृणां तु वक्ष्यते स्फुटमित्यत्रैव दशितम् ॥ ६ ॥

 तर्हि कियन्तोऽर्थाः प्रकरणेन प्रतिपाद्यन्त इत्यत आह अनर्थेति । अनर्थोऽनर्थहेतुः पुरुषार्थस्तद्धेतुरिति प्रकरणेन चत्वारोऽथर्थाः पूर्वोक्तविषयस्यैव प्रतिपादनाय प्रदश्र्यन्ते ते चोत्तरश्लोकाभ्यां संगृह्योच्यन्त इत्यर्थः । ऐकात्म्येति । एकोऽद्वितीय आत्मा एकात्मा तस्य भाव ऐकात्म्यं तद्विषयाप्रतिपत्तिरेकात्म्याप्रतिपत्तिरित्यविद्याविषयो दर्शितः । सांप्र-