पेण महाप्रकाशेन मणिना राजमानां प्रतिबिम्बितास्तगामिसूर्यबिम्बाम् । तथा-वक्रं
वक्रं स्वभावकुटिलं व्रजन्तीं गच्छन्तीम् । अतएव-फणियुवतिः कृष्णसर्पिणीयमिति
त्रस्नुभिस्त्रासशीलै रथपदयुगलैश्चक्रवाकस्त्रीपुंसयुगलैर्व्यक्तं स्पष्टं मुक्तं त्यक्तमन्योन्यं परस्परं यथातथा तीरे विषये विद्रुत्य पलाय्य कर्मभूते वा द्वे तीरे प्रति गत्वा अर्तिरुत्या
विरहपीडासंबन्धिना रुतेन कृत्वा सूचितां प्रकटीकृताम् । सांध्यतमसा वृतत्वाच्च स्पष्टतरमदृश्यमानामपि नदीयमिति चक्रवाकशब्देन ज्ञापितां फणियुवतिरिति सूचितामिति वा । कृष्णसर्पिण्यपि कृशा भवति सूर्यबिम्बतुल्येन शिरस्थेन मणिना शोभते ।
वक्रं वक्रं च व्रजति। तां च दृष्ट्वा जनाः पक्षिणो वा पलाप्य दीनस्वरोपलक्षिताः परस्परं
सहवासं मुञ्चन्ति । सूर्यमस्तं जिगमिषु दृष्ट्वा चक्रवाकमिथुनानि सांध्यविरहपीडया
रुतं कृत्वान्योन्यं मुक्त्वा पलाय्य केलिकुल्यापरावारे तीरे तिष्ठन्तीति भैमी ददर्शेत्यर्थः । उष्यतेऽस्मिन्निति वासः। तुङ्गप्रासादवासमारुह्याद्राक्षीदिति ल्यब्लोपे वा॥
अथ रथचरणौ विलोक्य रक्ता- |
अथेति ॥ अथ केलिकुल्यादर्शनानन्तरं सा भैमी रक्तौ परस्परानुरक्तौ स्वभावेन रक्तवर्णौ च अतिविरहासहतया नितरां वियोगासहिष्णुतया हतौ कामशरविद्धौ स्मरशराघाते सति अस्त्रै रुधिरैरिव रक्तौ रथचरणौ चक्रवाको विलोक्य तं पद्मानां सुप्तिकालं संकोचसमयं सायंसंध्यासमयमपि विरहपीडितकोकदर्शनादुःखसंजातः श्वसनो निःश्वासभरस्तन्निर्गमनेन कृत्वा विकीर्णं सरोजसौरभं यस्मिस्तादृशमकृत। संध्यासमये पद्मसंकोचात्सौरभासंभवेपि निश्वासमोचनेन पद्मिनीत्वात्पद्मसौगन्ध्यं तदानीमपि विस्तारयति स्मेत्यर्थः । कोकौ तादृशौ दृष्ट्वा भृशं निशश्वासेत्यर्थः । अन्योप्यस्त्रक्षतं रक्तव्याप्तं दृष्ट्वा भृशं निश्वसिति। 'विरहासहनौ हताविवास्त्रैः' इति पाठः सुयोजनः । अस्त्रैः कामस्य । रथचरणौ, 'पुमान्स्त्रिया' इत्येकशेषः॥
अभिलपति पतिं प्रति स्म भैमी |
अभीति ॥ भैमी पतिं प्रति इति अभिलपतिस्म अवोचत् । इति किम्-हे सदय सकरुण, त्वं कोकयोरवस्थां विरहविह्वलत्वं विलोकय । हा कष्टमिमौ कोको भिन्दतीं पृथग्देशावस्थितौ कुर्वतीम् , अत एव-मम भैम्या अपि हृदयं च एतच्छोकेन विदार-