पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७७
एकविंशः सर्गः।


यन्तीमिमां कोकयोरवस्थां विरहविह्वलत्वं विलोक्य क इव नरः सचेता मनुष्यो न रोदिति, अपितु सर्वोपि परिदेवनं करोत्येव । सदयत्वात्तव दुःखं भविष्यतीति किं वक्तव्यमित्यर्थः॥

कुमुदमुदमुदेष्यतीमसोढा रविरविलम्बिनुकामतामतानीत् ।
प्रतितरु विरुवन्ति किं शकुन्ताः स्वहृदि निवेशितकोककाकुकुन्ताः ॥ १४७ ॥

 कुमुदेति ॥ हे प्रिय, रविरुदेष्यतीमुत्पत्स्यमानां कुमुदानां मुदं विकासरूपं हर्षमसोढेवाशक्नुवन्निवाविलम्बितुं सत्वरं गन्तुं कामो यस्य तद्भावस्तत्तामतानीत् विस्तारितवान् । आसन्नास्तमयो वर्तत इत्यर्थः । तथा-शकुन्ताः पक्षिणः प्रतितरु विरुवन्ति विशेषेण रुतं कुर्वन्ति । आसन्ननेत्रनिमीलना वासार्थिनो विरुवन्तः सन्तः स्वस्वनिवासवृक्षं प्रति गच्छन्तीत्यर्थः । तत्रोत्प्रेक्षते-स्वहृदि निवेशिताः कोकानां काकवः शोकविकृता विरावा एवातिपीडाकारित्वात्कुन्ता भल्ला यैस्तादृशाः किम् । चक्रवाकशोकपीडिता इव पक्षिणः क्रन्दन्तीत्युत्प्रेक्षा । अन्योपि वैरिणामुदेष्यतीमभिवृद्धिमसहमानः सत्वरं कुत्रचिद्गच्छति । तथा--अपरः सकृपः कश्चिदुःखितं कंचिदृष्ट्वा क्रन्दति । सोढा, तृन् । मुदम् , 'न लोका-' इति षष्ठीनिषेधः। उदेष्यतीम् , 'आच्छीनद्योः-' इति वैकल्पिकत्वान्नुमभावः॥

अपि विरहमनिष्माचरन्तावधिगमपूर्वकपूर्वसर्वचेष्टौ ।
इदमहह निदर्शनं विहंगौ विधिवशचेतनचेष्टनानुमाने ॥ १४८ ॥

 अपीति ॥ हे प्रिय, स्वस्यानिष्टमपिं विरहमाचरन्तौ स्वयमेव कुर्वाणौ । तर्हि सदा स्वानिष्टाचरणस्वभावावेव भविष्यत आह-अधिगमो ज्ञानं तत्पूर्विकाः पूर्वा विरहाचरणात्प्राचीनाः सर्वाश्चेष्टाः कर्तव्यता ययोस्तौ । अधिगमो लामो हितमिति यावत् । तत्पूर्विकास्तदुद्देश्याः पूर्वाः सर्वाश्चेष्टा ययोस्तादृशौ वा । बुद्धिपूर्वकारी हि स्वाहिते न प्रवर्तते। कोकयोश्च दिने भोजनादयः सकलाश्चेष्टा ज्ञानपूर्विकाः स्वहिताश्च । एवंसत्यनेनैवंस्वभावावप्येतौ संध्यायामकस्मादेवान्योन्यविरहं स्वयमेव यस्मादाचरतस्तस्माद् विधिवशं दैवाधीनं चेतनानां प्राणिनां चेष्टितं पूर्वकर्माधीनं प्राणिनामाचरणमित्येवंरूपेऽनुमाने कार्यात्कारणविशेषज्ञाने विषये यावेतौ विशिष्टौ विहंगौ कोको इदमेव निदर्शनमयमेव दृष्टान्तः। अहह अद्भुते खेदे वा । तस्मात्प्राचीनकर्मानुसारेणैव प्राणी कदाचिद्धितं कदाचिच्चाहितमाचरतीति भावः । 'प्राणिनो दैवाधीनचेष्टिताः प्रतिकूलतया ज्ञातेऽपि प्रवर्तमानत्वाच्चक्रवाकवत्' इत्यनुमानम् ॥

अङ्घ्रिस्थारुणिमेष्टकाविसरणैः शोणे कृपाणः स्फुटं
 कालोऽयं विधिना रथाङ्गमिथुनं विच्छेत्तुमन्विच्छता।
रश्मिग्राहिगरुत्मदग्रजसमारब्धाविरामभ्रमौ
 दण्डभ्राजिनि भानुशाणवलये संसज्य किं निज्यते ॥१४९॥