पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७५
एकविंशः सर्गः


 इतीति ॥ ता गन्धर्वपुत्र्यः सख्यश्च इति पठति व्यक्तं भाषमाणे सति गन्धर्वपुत्रीवीणानिबद्धा गाथाः स्पष्टमनुवदति सति सांधिवेलं दिनरात्रिसंधिवेलाभवं बहु नृपकृत्यं संध्यावन्दनसायंहोमादिकं नलस्य नित्यं कर्मावेत्य ज्ञात्वा मृषालीकमेवात्रेदानीं भवतीभिर्न स्थातव्यमिति शुकोऽस्मान्निष्काशयति तर्हि वयं याम इति मिषमात्रेण ययुः गृहाद्वहिनिर्जग्मुः । रिरंसुरपि नलः संध्यासमये नित्यकर्मातिक्रम्य संभोगं न करोति, रिरंसुभैम्यपि स्वयं ग्रहं न करोतीति यद्यपि ता जानन्ति तथापि भैमीपरिहासार्थ तादृशं शुकवचनमेव व्याजीकृत्य बहिर्निर्गता इत्यर्थः। किंभूतास्ताः-कमलतयेव कमलरूपत्वेनेव तदा संध्यासमये निकोचवत्या संकुचन्त्या। कमलानि संध्यायां संकुचन्ति तादृश्या वृथागमनारम्भेण व्रीडाश्लीलासंजननात्कुपिताया निजसख्या भैम्या दृशा अर्धेनैकदेशेन दृष्टा विलोकिताः । सकोपत्वान्नेत्रतृतीयभागतिर्यग्व्यापारेणेषदृष्टाः । कुपिता हि मानिनी दृगन्तेन पश्यति । निकोचः, भावे घञ् ॥

अकृत परभृतः स्तुहिस्तुहीति श्रुतवचनस्त्रगनूक्तिचुञ्चुचञ्चुः ।
पठितनलनुतिं प्रतीव कीरं तमिव नृपं प्रति जातनेत्ररागः ॥१४३ ॥

 अकृतेति ॥ सख्या पूर्वमानीतः परभृतः कोकिलोऽप्युन्मत्तत्वात्स्वभावाच्च जातो नेत्रयो रागो लौहित्यं यस्यैवंविधः सन् स्तुहि स्तुहि इत्येवंरूपं शब्दमकृत । पिकः स्वभावादेव स्तुहि स्तुहीत्येवंरूपं शब्द चुकूजेत्यर्थः । तत्रोत्प्रेक्षते-पठिता समाप्तिं प्रापिता नलस्य नुतिः स्तुतिर्येन तं स्तुतिं कृत्वा तूष्णीभूतं तं कीरं शुकं प्रतीवोद्दिश्येव स्तुहि स्तुहीत्यकृत । रे कीर, किमिति तूष्णींभूतोऽसीतः परमपि नलस्य स्तुति कुर्विति नलस्तुतौ बुद्धिप्रकारं प्रावर्तयदिवेत्यर्थः । एवंवचने पिकस्य कथं सामर्थ्यमित्याशङ्कयाहश्रुता वीणानिबद्धशुकानूदितवचनस्रक् तस्या अनूक्तिः सर्वानुवादः तया वित्ता प्रसिद्धा प्रवीणा चक्षुर्यस्य । तादृशं शुकानूदितं सर्वमप्यनूद्येतः परमपि स्तुहि स्तुहीत्या- हेत्यर्थः । नेत्ररागेऽप्युत्प्रेक्षते-तं नृपं प्रतीव लक्षीकृत्येव जातनेत्रप्रीतिः सुन्द्रतरनय- नानन्दकारिणं नलं दृष्ट्वा जातनेत्रप्रीतिः स्तुहीत्यकृतेत्यर्थ इति रागशब्देनोत्प्रेक्षा । अनूक्तिचुञ्चुरिति 'तेन वित्तः-' इति चुञ्चुप् ॥

तुङ्गप्रासादवासादथ भृशकृशतामायतीं केलिकुल्या-
 मद्राक्षीदर्कबिम्बप्रतिकृतिमणिना भीमजा राजमानाम् ।
वक्रं वक्रं व्रजन्तीं फणियुवतिमतित्रस्नुभिर्व्यक्तमुक्ता-
 न्योन्यं विद्रुत्य तीरे रथपदमिथुनः सूचितामर्तिरुत्या ॥ १४४॥

 तुङ्गेति ॥ अथैवं वीणाक्वाणानुवादिशुकालापानन्तरं भीमजा केलिकुल्यां क्रीडाकृत्रिमनदीमद्राक्षीत् । किंभूताम्-भैम्यास्तुङ्गे उच्चतरे प्रासादे वासास्थितेर्हेतोर्भृशकृशतामायतीं प्राप्नुवतीम्, अधोदेशे स्थिता स्वयं महीयस्युच्चतरदेशे स्थितां भैमीं प्रत्यणीयस्त्वेन प्रतिभासमाना ताम् । तथा-अस्तगामिनोऽर्कस्य बिम्बप्रतिकृत्या प्रतिविम्बरू-